पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१५
सप्तविंशोऽध्यायः ।।।।।

गृहक्रिया हि द्विविधा भिन्नाभिन्नप्रकारतः ।
भिन्नं च पिण्डभेदं च वक्ष्ये स्फुटतरं यथा ॥ ११ ॥
 असन्धिकं भिन्नगृहं ससन्धिक
  ह्यभिन्नकं भिन्नगृहेषु तेषु वै ।
 चतुर्गुहं दिक्षु गतं प्रधानकं
  विदिक्षु वा मण्डपकं खलूरिका ॥ १२ ॥
 स्याद् वाटभित्तेरबहिः पृथग् गृहं
  त्रयं हिकं वैकमसम्पदां पदम् ।
 तस्माच्चतुश्शालमनिन्दितं परं
  सविस्तरं तस्य तु मानमुच्यते ।। १३ ।।
नीचानां नीच (तिष्ठानां ? मानं स्यात्) श्रेष्ठानां श्रेष्ठमुच्यते
श्रेष्ठमानं निकृष्टानां सर्व (भानं ? दा न) प्रयुज्यते॥ १४॥
कचिदिष्टं कनिष्ठानां यन्मानं श्रेष्ठजातिषु ।
अल्पत्वे वा महत्त्वे वा सीमासूत्रे विनिश्चिते ॥ १५ ॥
सायते चतुरश्रे वा चतुष्पष्टया विभाजिते ।
रज्जुवंशसिराषट्कचतुष्काष्टकसन्धिभिः ॥ १६ ॥
वर्मशूलं च यत्नेन वर्जयेद् वास्तुकोविदः ।
सूत्रादीनां गृहाङ्गैश्च पीडा चेत् सर्वनाशनम् ॥ १७ ॥
तस्मात् सर्वप्रयत्नेन सूत्रादीनि विवर्जयेत् ।
पूर्वादिमध्यसूत्राणि चान्नं धान्यं धनं सुखम् ॥ १८ ॥
इति नामानि तन्नाम्ना चत्वारि स्युगुहाणि च ।
अनालयं धान्यालयं धनालयं सुखालयम् ॥ १९॥