पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
मयमते।।।

अथ सप्तविंशोऽध्यायः

वर्णानां गृहविन्यासलक्षणं वक्ष्यतेऽधुना ।
चतुर्दण्डात् समारभ्य द्विद्विहस्तविवर्धनात् ॥ १॥
त्रिंशद्धस्तावधिर्यावदेकैकं गृहमानकम् ।
क्षुद्राणामष्टधा प्रोक्तं मध्यमानां विधीयते ॥ २ ॥
अष्टदण्डात् समारभ्य द्विद्विहस्तविवर्धनात् ।
द्वात्रिंशदण्डपर्यन्तं गृहाणां मानमिष्यते ॥ ३ ॥
अष्टादिशतदण्डान्तं दण्डाढ्यामुत्तमे क्रमात् ।।
वाटभित्तेरिदं मानं तदभ्यन्तरतो गृहम् ॥ ४ ॥
चतुरश्रं द्विजानां च नृपाणां च विशेषतः ।
अष्टषट्चतुरंशेन देयं स्यात् क्षत्रियादिषु ॥ ५ ।
हीनं षोडशहस्तेभ्यो गृहमानं न कारयेत् ।
नवाष्टसप्तषड्ढस्तैरुत्तुङ्गात्तुङ्गमानतः ।। ६ ॥
त्रिचतुर्भागविस्तारा पादोनाग्रविशालका ।
छत्रशीर्षकतुल्याभा छत्रनासीविभूषिता ॥ ७ ॥
चतुर्दिक्षु चतुर्झरोपेता तल्पसमायुता ।।
द्वारगोपुरसंयुक्ता नानावयवशोभिता ॥ ८ ॥
बहिष्टात् परिघोपेता सर्वरक्षासमन्विता ।
वाटभित्तिरिति प्रोक्ता गृहबाह्यसमावृता ॥९॥
मृण्मया वा लुपारूढा तुणादिच्छादनान्विता ।
खलूरिका वा कर्तव्या वेदिकापादशोभिता ॥ १० ॥