पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१३
षड्विंशोऽध्यायः।।।।

यमदिशि भोजनशाला सोमे धनसश्चयावासम् ।
अमौ धान्यागारं खे पक्तिय॑ञ्जनानि तत्रैव ॥ २०८ ॥
आराधनगृहमीशे कूपं तत्रोदितौ स्नानम् ।
यस्मिन् यदुक्तमुचितमन्यानि हि तत्र संप्रयोज्यानि ॥
द्वाराणि च कुड्यानि च युक्त्या तु स्वामिवाञ्छवशात् ।
अन्यच्छेषं सर्व कुर्यादुक्तिक्रमेण दृढतरधीः ॥ २१० ॥
 अपिच शिखिनि गोष्ठं नैतेऽजाविकानां
  पवनदिशि निवासं माहिषं चैशकोणे ।
 भवति तुरगशाला नागशाला च तस्मिन्
  दिशि च दिशि च सर्वे वाहना द्वारवामे ॥२१॥
 सामान्यं स्यादेतदुक्तं चतुर्णा
  वासे राज्ञां योजनीयं विशेषम्
 त्रिप्राकारं च त्रिपङ्क्ति त्रिभोगं
  शेषाणां चाप्युक्तनीत्या त्रयाणाम् ॥ २१२॥
 एकत्रिीण्यत्र सालानि नणां
  पञ्च त्रीण्यकादि देवालयेषु ।
 यत्तत् प्रोक्तं धाममानेन पूर्व
  तत्रैवायोज्यं विधि नराणाम् ।। २१३ ॥

इति मयमते वस्तुशास्त्रे शालाविधान नाम

षड्विंशोऽध्यायः।