एकद्वित्रितलाढ्यं पुरतः परतो विचित्रनास्यङ्गम् ।
एतद् विहारशालं प्रासादवदेव करणीयम् ॥ १९९३ ॥
सर्वासामपि वक्ष्ये पादायामं तु तस्य विष्कम्भम् ।
सार्धद्विहस्तमादि त्रिभिरथ षभिः कराग्रजा तु ॥
सार्धत्रिचतुर्हस्तावधिकं यावन्नवाधिकायामम् ।
व्यासं षडङ्गुलं स्यात् तस्मादधैंकमात्रवृद्ध्या तु ॥२०१३॥
दश च चतुर्दशमात्रं यावन्नवधा विशालं स्यात् ।
पूर्वोदितमानं वा योज्यं युक्तिक्रमेण विद्वद्भिः ॥२०२३॥
स्वव्यासकरं त्रिगुणं कृत्वा वसुभिहरेत्तु तच्छेषम् ।
ध्वजधूमसिंहश्वावृधखरगजवायसाश्च योनिगणाः ॥२०३३॥
एषु ध्वजमृगवृषभेभाः शुभयुक्ता न शोभनास्त्वन्ये ॥
सैकत्रिंशद्धस्तविस्तारकाभ्यां
द्वाभ्यां द्वाभ्यां वर्धयेत् तत् कराभ्याम् ।
शालाबाह्ये सैकषष्टयन्तमाना-
भीष्टायामा संमता स्यात् खलूरी ॥ २०५ ।।
बहिरबहिरभीष्टा कुड्यपादाङ्गशोभा
शिखरमपि लुपारूढान्वितं मण्डपं वा ।
अमरनरविमानाद्यावृता सा खलूरी।
भवनतलविहीनैकहिभूमिप्रयुक्ता ॥ २०६॥
प्रथमावरणे द्वितीयके वा
परभागे सदनं तु योषिताम् ।
निर्ऋतौ सूतिगृहं च वर्चसः
पवनादीन्दुदिक्षु वाङ्गनागृहम् ॥ २०७॥