पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२११
षड्विंशोऽध्यायः।।।।

 अन्तर्बहिर्वक्रयुतं ह्यसीमकं
  वासं न सामान्यगताङ्गणान्वितम् ॥ १९२३ ।।
हस्तस्तम्भतुलादिकान् नरगृहे युञ्ज्यादयुग्मं यथा
 युग्मायुग्मकसङ्ख्यया सुरगृहे युञ्जीत हस्तादिकान् ।
मध्यद्वारमनिन्दितं सुरमहीदेवक्षितीशालये
 शेषाणामुपमध्यमेव विहितं तत् संपदामास्पदम् ॥ १९३३॥
  गर्भ कुर्यान्नेत्रके भित्तिभागे
   पादाधाराच्छुभ्रकाधः क्रमेण ।
  मध्यस्य स्याद् वामभागे गृहे वा
   शालानां स्यान्मुख्यधामन्यवश्यम् ॥ १९४३ ॥
  भित्तिव्यासेऽष्टांशके चातुरंशं
   बाह्येऽबाह्ये तत्रिभागं विहाय ।
  मध्ये गर्भ योजनीयं सुराणां ।
   विप्रादीनां मन्दिरे निन्दितं तत् ॥ १९५३ ।।
  वंशद्वारं नैव विप्रादिकानां
   वर्णानामावासके योजनीयम् ।
  पाषण्ड्यादीनां मुनीनां गृहे तद्
   वंशहारं योजनीयं न दृष्यम् ॥ १९६३ ॥
आद्यमथात्तविशालं त्रिगुणायामं ततः प्रवृद्धिः स्यात् ।
व्यासद्विगुणे त्रयोविंशति यावत् तावत्तु सैकदशसङ्ख्या
पुरतो भद्रसमेतं कर्णसभाकोष्ठनीडमण्डितकम्।
पृष्ठे वारयुतं वा(पि!हिललाटं गर्भकूटसमम् ॥१९८१ ॥