पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
मयमते।।।

अष्टाष्टहस्तविसृतं द्विगुणायतं च
 बिहारि पतिवदनं द्वयमङ्गणं च ।
षट्सन्धिकं भवनवत् परिमण्डनीयं
 तत् सप्तवारमवनीसुरमन्दिरं स्यात्॥ १८७३ ॥
व्यासे पञ्चाशे नवांशायतं स्यात्
 षडुभागे रुद्रांशकैः सप्तभागे।
द्विःषड्भागैरष्टभागे नवांशे
 (द्विस्सप्तांशैः) षोडशांशैस्तु दैर्घ्यम् ॥ १८८३ ॥
एवं पञ्चैवायतं सप्तशाले
 पूर्वोक्तव्यासांशके पतिभागे।
दैर्ध्य सैकाविकारैः ससप्त-
 धर्माशैविंशत्रयोविंशदंशैः ॥ १८९३ ॥
राज्ञामुदीरितमशीतिकविशाले
 दैर्घ्य (तु) तत्रिगुणमर्कललाटयुक्तम् ।
त्रिद्वारि चाङ्गणगुणान्वितमष्टसन्धि
 द्विःपञ्चशालमथ हर्म्यमि(ति ? व) प्रयोज्यम् ॥
वासव्यंशं सार्धभागं ह्यलिन्द्रं
 व्यंशेकांश वा तदर्ध प्रवेशम् ।
बाह्येऽबाह्ये नालनीप्रं तदर्ध
 शालानां स्यादत्र सामान्यमेतत् ॥ १९१५॥
निरङ्गणं कर्णगताङ्गणान्वितं
 बहुप्रवेशं बहिराननान्वितम् ।