पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०६
मयमते।।।

त्रिपादं वा तदर्ध वा युक्त्यान्तःस्तम्भसंयुतम् ।
एकद्वित्रितलोपेतं मालिकाभं यथा तथा ।। १४६ ॥
विवृतस्तम्भसंयुक्तं वासालिन्द्रान्वितं तु वा ।
अन्तःसोपानसंयुक्तमनुक्तं चात्र पूर्ववत् ॥ १४७ ।
त्रितलाद्यानवतलमेकादशतलं तु वा ।
एतत्तु वर्धमानं स्याद् भूपेन्द्राणां विशेषतः ॥ १४८ ॥
नन्द्यावर्तस्य विन्यासमलङ्कारमथोच्यते ।
व्यासे षडंशके तत्र द्विभागं मध्यमाङ्गणम् ॥ १४९ ॥.
शालाव्यासं द्विभागं स्यात् तन्मानं तु चतुष्टयम् ।
बाह्यवारं च कुड्यं च नन्द्यावर्तसमाकृति ॥ १५ ॥
दिश्यथैको नतहारं(?) शाला वाथ चतुष्टयम् ।
जालकं च कवाटं च बाह्येऽबाह्ये तथैव च ॥ १५१ ॥
सर्वतः कुडयसंयुक्तं मुख्यगेहं कभित्तिभाक् ।
कुल्याभहारसंयुक्तं मुखचङ्क्रमणं भवेत् ॥ १५२ ॥
अन्तर्विवृतपादं स्याद् बाह्ये कुड्यावृतं तु तत् ।
दण्डकावारसंयुक्तं प्रासादवदलङ्कृतम् ॥ १५३ ॥
चतुर्णामुदितं वैश्यशूद्रयोः प्राग्दिगाननम् ।
तदेवांशावृतालिन्द्रं बहिरिं प्रशोभितम् ॥ १५४ ॥
अधिष्ठानाचिकादीनां पूर्ववद् योजयेद् बुधः ।
एकद्वित्रितलोपेतं मुण्डप्रासादकानितत् (?)॥ १५५ ॥
चतुर्णामपि वर्णानां योजयेत् तद्विचक्षणः ।।
व्यासे दशांशके तत्र विभागं मध्यमाङ्गणम् ॥ १५६ ॥