पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
षड्विंशोऽध्यायः।।।।

द्विभागं पृथुवारं स्याद् बाह्यवारं तदर्धकम् ।
परितो द(धि?ण्डि)कावारं मुष्टिबन्धादिशोभितम् ॥
चूलहादिकं कुड्यं महावारमुपर्यपि ।
कूटकोष्ठादिसर्वाङ्गं युक्त्या तत्र प्रयोजयेत् ॥ १३६ ।।
एतत्तु वर्धमानं स्यान्नोदग्द्वारं महीभृताम् ।
व्यासे हिरष्टभागे तु द्विभागं मध्यमाङ्गणम् ।। १३७ ॥
तावत् स्याद् गृहविस्तारं परितः कुडयसंयुतम् ।
द्विभाग पृथुवारं स्यादन्तः स्तम्भं यथोचितम् ॥ १३८ ॥
तहहिरिमेकांशं पृथुवारं हिभागतः।
स्तम्भं कुडयं यथायुक्ति यथाशोभं तथाचरेत् ॥ १३९॥
दण्डिकावारसंयुक्तं पार्श्वे पृष्ठे सभद्रकम् ।
पार्श्वयोर्नेत्रशाले हे द्वे महावारसंयु(तम् ? ते) ॥ १४० ॥
पादं पादाश्रयं पादं पादाधीश्रयमेव वा।
किञ्चिदाश्रयमेवं वानाश्रयं विपदां पदम् ॥ १४१ ॥
वारस्थलं चूलहवें कर्तव्यं स्यात् तलं तलम् ।
गोपानं च लुपाचैव वक्रस्तम्भं च नाटकम् ॥ १४२ ॥
मुष्टिबन्धं च नियूहबलभी च कचग्रहम् ।
यत्र यत्रोचितं तत्र योजयेत् तद् विचक्षणः ॥ १४३ ॥
सभा वा मण्डपाकारं मालिकाकारमेव वा ।
एतासामपि शालानामङ्गणं कारयेद् बुधः ॥ १४४ ।।
मण्डपस्य तु मध्ये तु स्तम्भं नैव प्रयोजयेत् ।
मण्डपं पुरतस्तस्य वासव्याससमं तु वा ॥ १४५ ॥