पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
मयमते।।।

पार्श्वयोर्नेत्रकूटे हे मुख्यधाम्नस्तु षट्तले ।
पुरतः कर्णकूटे हे सोपानं स्यात् तदन्तरे ॥ १२४॥
तत्पुरः कर्णकटे हे कर्तव्ये तु चतुस्स्थले ।
शाला पञ्चतले कार्या दैर्ये तत्रैव पञ्जरे ॥ १२५ ॥
द्विभागविपुलायामे कर्तव्ये पार्श्वयोस्तु ते ।
अङ्गणं मण्डपं चोर्षे तदृधे तलवारयुक् ॥ १२६ ॥
वारं नेत्रसमायुक्तं वामे सोपानसंयुतम् ।
मुखचङ्क्रमणे गुह्यसोपानं स्यात् तले तले ॥ १२७ ॥
पृष्ठेऽष्टहृयशविस्तारनिर्गमं भद्रशोभितम् ।
तदंशे पार्श्वयोर्वके वारं स्यात् त्रितलान्वितम् ॥ १२८॥
द्वयंशैकांशकविस्तारनिर्गमा पञ्चभूमिके ।
सवारमुखपट्टयङ्गपृष्ठशालाविनिर्गता ॥ १२९ ॥
पार्श्वयोईि(त्रि ? हि)भागेन कुटौ हौ तु चतुस्स्थले। .
पुरतो मण्डपं तत्र वासव्याससमन्वितम् ॥ १३०॥
द्वितलोपरि भद्राङ्गी शाला नेत्रसमन्विता ।
वास्तूनां तु चतुरसूत्रं यथाशास्त्रं प्रसारयेत् ॥ १३१॥
मध्ये स्तम्भं सुसंस्थाप्य पार्श्व (द्वय ? हार)युतं तु तत्
कर्तव्यं विधिना तज्ज्ञैः कम्पद्वारं तदुच्यते ॥ १३२ ॥
प्रासादवदलङ्कर्यात स्तम्भाद्यङ्गं तले तले ।
सप्तभौमं नृपेशस्य मन्दिरं वर्धमानकम् ॥ १३३ ॥
चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।
परितो वारमेकांशं शालाव्यासं द्विभागिकम् ॥ १३ ॥