पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
षड्विंशोऽध्यायः।।।।

व्यासे दशांशके तत्र विभागमङ्गणं भवेत् ।
तहहिरिमेकांशं शालाव्यासं द्विभागिकम् ॥ ११३ ॥
तदर्धं तु बहिर्वारं द्वारं भद्रसमन्वितम्।
कूटकोष्ठादिसर्वाङ्गं यथायुक्ति यथारुचि ॥ ११४ ॥
एतत्तु वर्धमानं स्याञ्चतुर्णामपि शंसितम् ।
अथवा तहहिवारं व्यंशं व्यासे दशांशके ॥ ११५॥
मुक्तमुक्ततलं तत्र मण्डपक्रिययान्वितम् ।
यथोचितमलङ्कारमुपर्युपरि तत्क्रमात् ॥ ११६ ।।
मुखभद्रं विना तत्र शेषं प्रागुक्तवन्नयेत् ।
समं त्रिपादमध वा मुखमण्डपमिष्यते ॥११७॥
शेष प्रागुक्तवन्नेयं विप्रादीनां प्रशंसितम् ।
त्रिचतुष्पञ्चभौमं स्याद् वर्धमानं मनोहरम् ॥ ११८ ॥
द्वादशांशे विशाले तु द्विभागं मध्यमाङ्गणम् ।
शालाव्यासं द्विभागं तबाह्यालिन्द्रं विभागतः ॥ ११९ ।।
तहहिरिमेकांशं स्तम्भं कुड्यं यथोचितम् ।
पार्श्वयोस्तहहिहर्यशैकांशविस्तारनिर्गमा ॥ १२०॥
सवारमुखपव्यङ्गनेत्रशालाविनिर्गता।
पुरतः पार्श्वयोर्नेत्रशालेऽलिन्द्रात् तु पूर्ववत् ॥ १२१ ॥
तयोर्मध्ये चतुर्थशे द्वितले वा स्थलान्वितम् ।
वारं स्यात् त्रितले तत्र तत्र शाला चतुरस्थले ॥१२२ ॥
अपरे कर्णकूटे हे कर्तव्ये पञ्चभूमिके ।
तयोर्मध्ये चतुर्थशे षट्तलेऽर्धसभामुखम् ॥ १२३ ।।