पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
मयमते।।।

वर्धमानस्य विन्यासं वक्ष्ये संक्षेपतः क्रमात् ॥ १.२॥
व्यासे षडंशके तत्र यंशं शालाविशालकम् ।
द्विभागमङ्गणं बाह्ये सर्वतःकुड्यसंयुतम् ॥ १०३ ॥
प्रमुखे मुख्यवासस्य भागं चङ्क्रमणं भवेत् ।
मध्यभित्तिसमायुक्तं कुल्याभद्वारसंयुतम् ॥ १०४ ॥
अपरे दीर्घशाला स्याद् द्विनेत्रोत्तुङ्गसंयुता ।
ईषन्निम्नोन्नतात्प्राविशालाद् दैर्ध्यानतान्विता(?)॥१०५॥
पक्षके द्वे तु शाले तु वंशं निम्ने द्विवक्रकौ(?)।
एकैकदिशि निष्क्रान्तं द्विभागं मध्यवारणम् ॥ १०६ ॥
हस्वपादसमायुक्तं यथालङ्कारकं तु तत् ।
शङ्खावत तु सोपानं कर्ण व्यंशेन योजयेत् ॥ १०७ ॥
नासिकातोरणस्तम्भजालकादिविराजितम् ।
प्रासादवदलङ्कुर्यादनुक्तं चात्र पूर्ववत् ॥ १०८ ॥
एकद्वित्रितलोपेतं नोदग्द्वारं महीभृताम् ।
तदेवांशेन वारं तु विवृतस्तम्भभित्तिकम् ॥ १०९॥
मुख्यगेहार्धदाक्षिण्ये मूलवंशोन्नतोन्नतम् ।
यथेष्टदिशि भद्राङ्गं यथेष्टदिशि वासकम् ॥ ११० ॥
दण्डिकावारसंयुक्तं प्रासादवदलङ्कृतम्।
हारतोरणनासीभिस्तथा वेदिकजालकैः॥१११॥
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ।
एतत्तु वर्धमानं स्याच्चतुर्णामपि शंसितम् ॥ ११२॥