पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०१
षड्विंशोऽध्यायः।।।।

तले तले तु सोपानं मध्ये मध्ये तु मण्डपम् ।
विवृतं वाङ्गणं सर्व युत्यानुक्तं प्रयोजयेत् ॥ ९४ ॥
एतत्तु सर्वतोभद्रं नृपाणामधिवासकम् .
अष्टादशांशके व्यासे द्विभागं मध्यमाङ्गणम् ॥ ९५ ॥
परितो मार्गमेकांशमन्तर्वारमथांशकम् ।
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ९६ ॥
द्विभागं पृथुवारं स्याद् बाहावारमथांशकम् ।
शालाकारं सभाकारं यथा वा शिखरं तु तत् ॥ ९७ ॥
त्रितलादितलोपेतं खण्डहामिमण्डितम् ।
पूर्ववद् योजयेच्छेषं यथायुक्ति यथारुचि ॥ १८ ॥
स्वामिचित्तवशान्न्यस्तस्थानविन्याससंयुतम् ।
अन्यत् प्रासादवत् सर्वमलङ्कर्याद् विचक्षणः ॥ ९९ ॥
एतत्तु सर्वतोभद्रं नृपेशभवनं स्मृतम् ॥ ९९३ ॥
 शालाजातिस्तच्छिरोयुग विमानं
  मुण्डाकार शीर्षकं हर्म्यमेतत् ।
 नानाकाराङ्गान्वितानेकभूमा।
  माला छन्दा स्यात् तु सा मालिकाख्या ॥ १०.१॥
 व्यासे षडस्वंशके व्यंशकेऽष्टां-
  शार्कमन्वंशैश्चदैर्घ्यं तदंशैः ।
व्यंशकेऽष्टांशार्केर्मन्वंशैदीर्घ्य तत्तदंशै(?) ।
एकद्वयंशं मुख्यवासस्य वारं
 दैर्ध्याष्टांशैर्वारमेकं च सार्धम् ॥ १०१ ॥