पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२००
मयमते।।।

सर्वासामपि शालानामेतत् सामान्यमीरितम् ।
हस्तच्छेदप्रवृड्या वा हान्या पूर्ण यथा कुरु ॥ ८३ ।।
करीकर्णवक्रान्ता शालावासचतुष्टया ।
अष्टास्योर्ध्वतलग्रीवा सस्थूपिसमवंशका ।। ८४ ॥
भद्रोर्ध्वमुखकूटं स्यादन्तारं बहिर्मखम् ।
एतत्तु सर्वतोभद्रं राज्ञामावासयोग्यकम् ॥ ८५ ॥
वासव्यासेऽर्कभागे तु द्विभागं मध्यमाङ्गणम् ।
परितो मार्गमेकांशमन्तर्वारमथांशकम् ॥ ८६ ॥ .
शालाव्यासं द्विभागेन बाह्यवारं तदर्धकम् ।
एतत्तु सर्वतोभद्रमलङ्कारादि पूर्ववत् ।। ८७ ॥
व्यासे द्विसप्तभागे तु द्विभागं मध्यमाङ्गणम् ।
परितो बारमेकांशं ढ्यंशं शालाविशालकम् ॥ ८८ ॥
तदर्ध बाह्यवारं तु पृथुवारं द्विभागतः ।'
चतुष्टयानां शालानां शिखरं तु सभाकृति। ८९॥
मध्ये नासिसमायुक्तं भद्रप्रभृति पूर्ववत् ।
सर्वासामपि शालानां त्यजेन्मध्यस्थपादकम् ॥ ९ ॥
त्रितलादितलोपेतं खण्डहाभिमण्डितम् ।
एतत्तु सर्वतोभद्रं देवद्विजमहीभृताम् ॥ ९१॥
व्यासे द्विरष्टभागे तु चतुरंशमथाङ्गणम् ।
पूर्ववद् योजयेच्छेषं प्रहीणशिखराकृति ॥ ९२ ॥
नासिकातोरणाद्यङ्गैर्जालकैश्च समन्वितम् ।
त्रितलादितलोपेतं प्रासादवदलङ्कृतम् ॥ ९३ ।।