पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०७
षड्विंशोऽध्यायः।।।।

परितो वारमेकांशं शालाव्यासं द्विभागतः ।
बाह्यतोऽलिन्द्रमेकांशं भद्रप्रभृति पूर्ववत् ॥ १५७ ॥
यथायुक्ति यथाशोभं तथा हाङ्गमण्डितम् ।
षट्पडंशे विशाले तु द्विभागं मध्यमाङ्गणम् ।। १५८ ॥
द्वशं शालाविशालं स्यान्मुखगेहं कभित्तिभाक् ।
पृथुवारं द्विभागं (स्यात्) तबाह्ये तु समन्ततः॥ १५९ ॥
परितोऽलिन्द्रमेकांशं स्तम्भं कुड्यं यथेष्टतः।
सालिन्द्रं चूलहाङ्गं यथायुक्ति यथारुचि ॥ १६० ।।
द्वारं च मुखभद्रं चाप्यधिष्ठानादि पूर्ववत् ।
चतुष्टयानां शालानां मध्यवंशोर्ध्वमस्तकम् ॥ १६१ ॥
पुरेऽपुरे भवेत् कूटं पक्षशालाननान्वितम् ।
नन्द्यावर्ताकृतिश्चाथ यथायुक्तं चतुर्मुखम् ॥ १६२ ॥
ऊोर्ध्वमङ्गणं कुर्यात् पक्षशालासमोपरि ।
सभा वा मण्डपं वापि मालिका चाङ्गणक्रिया ॥ १६३ ॥
त्रितलादि तलोपेतमूहप्रत्यूहसंयुतम् ।
द्विजानां च महीपानामेतत् प्रासादकं हि तत् ॥ १६४॥
चतुर्दशांशके व्यासे द्विभागं मध्यमाङ्गणम् ।
परितो मार्गमेकांशं द्विभागं गेहविस्तृतम् ॥ १६५ ॥
पृथुवारं द्विभागं स्याद् युक्त्यान्तः स्तम्भसंयुतम् ।।
तबहिर्वारमेकांशं कुड्यस्तम्भादिमण्डितम् ।। १६६ ॥
चतुर्दिशाननोपेतं नन्द्यावर्तसमाकृति ।
कवंशालास्तथाष्टस्याच्चतुरस्याद् व्यवस्थिता(?) ॥ १६७ ।