पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
मयमते।।।

एकभौमकमनेकभौमकं योजनीयमवनीपतीच्छया ॥
संवृतं विवृतमधिभित्तिकं दिक्षु दिक्षु गतभद्ररूपकम् ।
मध्यरङ्गसहितं तु वाङ्गणं स्तम्भभित्तिकमुपर्युपर्यपि ॥
गुह्यवारणपराधिरोहणं द्वारि तत्र बहुयन्त्रकल्पकम् ।
वारिगर्भगजभूतहंसकं व्यालसिंहकपिसालभजिकम् ॥
हर्म्यमण्डपसभाभशीर्षकं कूटनीडगजतुण्डकोष्ठकम् ।
तोरणादिबहुजालकैर्युतं नासिकादिभिरलङ्कृतं पुनः॥
मण्डपस्य पुरतोऽथ मध्यमे वा जलाशयमनेकयन्त्रकम् ।
इष्टकाभिरुपलरलङ्कृतं सावगूढमपगूढवारिणाम्॥१८०॥
एवं भूपानां जलक्रीडनार्थ प्रोक्तं यत्तन्मण्डपं रम्यदेशे।
सालङ्कारं सर्वचित्रैर्विचित्रं स्त्रीसौभाग्यारोग्यभोग्यप्रदायि॥
खदिरः खादिरो वह्निनिम्बः सालः सिलिन्द्रकः पिशितः।
तिन्दुकमथ राजादनहोममधूकास्तु पादपादपकाः॥
एते देवहिजनृपयोग्याः स्युः सर्वकर्मसु वै ।
स्तम्भाकृतयः सर्वे प्रोक्ताः पूर्वोदितास्तेषाम् ॥ १८३३ ॥
पिशितस्तिन्दुकवृक्षो निम्बो राजादनो मधूकश्च ।
सिलिन्द्रः स्तम्भरुजा वैश्यानां चापि शूद्राणाम् ॥१८४३॥
वृत्तं वा चतुरश्रं वाष्टाश्रं षोडशाभं च ।
स्तम्भाकृतयः प्रोक्तास्त्वक्साराः सर्वयोग्याः स्युः ॥
तालं च नालिकरं क्रमुक वेणुश्च केतकी चैव।
इष्टशिलाभिर्वावृक्षैर्देवद्विजमहीपानाम् ॥ १८६३ ॥