पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
पञ्चविंशोऽध्यायः।।।।

परितो मण्डपं शं तबाह्ये योजयेद् बुधः ।
पञ्चद्व्यशविशालायामेन भद्रं मुखेऽमुखे ॥ १६६ ॥
ज्यशैकविपुलं दैर्ध्य पार्श्वयोर्भद्रकद्वयम् ।
कर्णे लाङ्गलवत् कुड्यं विवृतस्तम्भसंयुतम् ॥ १६७ ॥
साष्टाविंशच्छतं पादमाद्यङ्गे प्रविधीयते ।
यथायुक्ति यथायोगं तथा युञ्जीत बुद्धिमान् ॥ १६८ ॥
सर्वतोभद्रकं नाम्ना सर्वालङ्कारसंयुतम् ।
एतान्यपि सुरादीनां योजयेत् तु विचक्षणः ॥ १६९ ।।
मण्डपानां तु विस्तारादायामं प्रविधीयते ।
जातिरूपं तु पूर्वोक्तं छन्दमेकं द्विभक्तिकम् ॥ १७० ॥
विकल्पं त्र्यंशकं प्रोक्तमाभासं चतुरश्रकम् ।
दण्डकं स्वस्तिभद्रं च पद्मं ककरभद्रकम् : १७१ ॥
षण्मुखं लाङ्गलं मौलिं जातिनामानुसारतः ।
प्रपामण्डपजातिस्तु युक्तितः पादसंयुता ॥ १७२ ॥
गृहविन्यासरङ्गाङ्गं तदुक्तं गृहमण्डपम् ।
प्रासादगर्भनालीवत् सालिन्द्राङ्गविशेषतः । १७३ ।।
अधिष्ठानादिवर्गाढ्यं प्रासादाकारमण्डपम् ।
प्रासादगृहसाङ्गाङ्गं गृहप्रासादमण्डपम् ॥ १७४ ॥
मण्डपोपरि भूमिश्चेन्मालिकामण्डपं मतम् ।
इष्टकाभिः शिलाभिर्वा दारुभिर्दन्तलोहकैः ॥ १७५ ॥
सर्वत्र द्रव्यजातीनां मिश्रं मिश्रं विशेषितम् ॥ १७५१ ॥
सायतं (तु)चतुरश्रकं जलक्रीडयान्वितमथापि मण्डपम् ।