पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
मयमते।।।

नाम्ना सौख्यमिति प्रोक्तं सर्वेषां तु सनातनम् ।
सप्तभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥१५५ ।।
त्रिभागचतुरथं तु मध्ये कूटं तु वाङ्गणम् ।
तहाटे भागमानेन परितोऽलिन्द्रमिष्यते ॥ १५६ ॥
द्विपश्चविस्तृतायाम पार्श्वयोरङ्गणद्वयम् ।
बाह्ये मण्डपमेकांशं परितः कल्पयेद् बुधः ॥ १५७ ॥
त्रिभक्त्यैकेन विस्तारनिर्गम मुखभद्रकम् ।
चतुराशीतिकं पादमाद्यङ्गे प्रविधीयते ॥ १५८ ॥
प्रमुखे वारमेकांशं नानावयवशोभितम् ।
सर्वालङ्कारसंयुक्तमेतदीश्वरकान्तकम् ॥ १५९ ॥
अष्टभक्त्या विशालं तु तस्मात् पूर्ववदायतम् ।
द्विभक्ति चतुरश्रं तु मध्ये कूटं तु वाङ्गणम् ॥ १६० ।।
तबाह्ये भागमानेन परितोऽलिन्द्रमिप्यते ।
पूर्ववत् पार्श्वयोः कूटं व्यंशेनाधिकमायतम् ॥ १६१ ॥
द्विभक्त्या मण्डपं बाह्ये परितः कल्पयेद् बुधः ।
चतुर्द्विभक्तिविस्तारनिर्गमं मुखभद्रकम् ॥ १६२ ॥
दशाधिकशतस्तम्भमाद्यङ्गे प्रविधीयते ।
सर्वालङ्कारसंयुक्तं श्रीभद्रं सर्वयोग्यकम् ॥ १३ ॥
नवभक्त्या विशालं तु तस्मात् पूर्ववदायतम् ।
त्रिभक्तिचतुरश्रं तु मध्ये कूटं तु वाङ्गणम् ॥ १६४ ॥
तबाह्ये भागमानेन परितोऽलिन्द्रमिप्यते ।
द्विपश्चभक्तिविस्तारदैर्घ्य पार्श्वेऽङ्गणद्वयम् ॥ १६५ ।।