पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
पञ्चविंशोऽध्यायः।।।।

त्रिःपश्चाध्रिसमायुक्तं यंशैकं मुखभद्रकम् ।।
पार्धे सोपानसंयुक्तं नासिकाख्यैरलङ्कृतम् ॥ १४४ ॥
इष्टदिङ्मुखसंयुक्तं मार्गाख्यं मण्डपं मतम् ।
त्रिभक्तिविस्तृतं तस्य विस्तारदिगुणायतम् ॥ १४५ ।।
चतुःसप्ताघ्रिसंयुक्तं भत्तया वारं तु तन्मुखे ।
द्विभक्तिविस्तृतं भक्त्या निर्गमं मुखभद्रकम् ॥ १४६ ॥
युक्त्या नास्य िसंयुक्तं सौभद्रं तन्मनोहरम् ।
चतुर्भक्त्या विशालं तु तस्माद् द्वयंशाधिकायतम् ॥१४७॥
द्विचतुर्विस्तृतायामं कूटं मध्ये तु बाङ्गणम् ।
द्वात्रिंशानिसमायुक्तं भक्त्या तन्मुखभद्रकम् ।। १४८ ॥
युक्त्या नास्यविसंयुक्तं सुन्दराख्यं तु मण्डपम् ।
पञ्चभक्त्या विशालं तु तस्माद् वेदांशमायतम् ॥ १४९॥
द्विभक्तिविस्तृतं व्यंशदैर्ध्य पार्श्वेऽङ्गणद्वयम् ।
षट्पञ्चाशद् भवेत् पादं वारमेकेन तन्मुखे ॥ १५ ॥
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।
प्रमुखे तस्य सोपानं सर्वतः कुड्यसंयुतम् ॥ १५१ ॥
युक्त्या नास्यङ्गसंयुक्तं साधारणमिति स्मृतम् ।
षड्भक्तिविस्तृतं तस्मात् त्रिभक्त्याधिकमायतम्॥१५२ ॥
द्विपञ्चभागविस्तारायाम मध्ये सभोदयम् ।
परितो भण्डपं इयंशं वारं भक्त्या तु तन्मुखे ॥ १५३ ।।
पूर्ववन्मुखभद्रं तु नासिकाख्यैरलङ्कृतम्
षष्टयङ्घिकसमायुक्तं सर्वावयवसंयुतम् ।। १५४ ॥