पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८६
मयमते।।।

षष्णवत्यघिसंयुक्तं यथेष्टं द्वारभित्तिकम् ।
वारयुक्तमवारं वा पूर्ववन्मुखभद्रकम् ॥ १३३॥
नानावयवसंयुक्तं नाम्ना श्रीरूपमिष्यते ।
पविभागविशालं तु तस्माद् द्वयंशाधिकायतम् ॥ १३४॥
द्विचतुर्भागविस्तारायाम मध्ये सभोदयम् ।
परितोऽलिन्द्रमेकांशं भागेन जलपातनम् ॥ १३५॥
तबाह्ये यंशमानेन परितो मण्डपं भवेत् ।
स्तम्भं कुड्यं मुखं भद्रं यथेष्टं परिकल्पयेत् ॥ १३६ ॥
अथवा मध्यकूटं चाप्यलिन्द्रं चापि पूर्ववत् ।
जलस्थलं विना सर्व मण्डपं परिकल्पयेत् ॥ १३७ ॥
द्विभक्त्या चतुरश्रं तु षट्कूटं पार्श्वयोर्मतम् ।
द्विचतुर्भागविस्तारदैये कोष्ठं मुखेऽमुखे ॥ १३८ ॥
कर्णे लाङ्गलकुड्यं वा परितः कुड्यमेव वा ।
विवृतं संवृतं वापि स्तम्भं तत्रैव योजयेत् ॥ १३९ ।।
सर्वावयवसंयुक्तं मङ्गलाख्यं तु मण्डपम् ।
अष्टावेतानि चोक्तानि देवद्विजमहीभृताम् ॥ १४० ॥
पूर्वोक्तचतुरश्रात् तु भक्त्यैकया विवर्धनात् ।
यावद् द्विगुणमायामं तावद् देय प्रयोजयेत् ॥ १४१ ॥
स्तम्भकुड्यादिकं सर्वमलङ्कारं च तत्ततः।
यथारुचि यथाशोभं तथा कुर्याद् विचक्षणः ॥ १४२ ॥
अष्टावायतयुक्तानि वक्ष्यन्ते वैश्यशूद्रयोः ।
द्विभक्तिविस्तृतं चैव विस्तारद्विगुणायतम् ॥ १४३ ॥