पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
पञ्चविंशोऽध्यायः।।।।

षडूभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ।
चतुर्द्विभक्तिकं दैर्ध्यव्यासमध्ये सभोदयम् ॥ १२२ ॥
परितो मण्डपं द्वयंशमिष्टदिङ्मुखभद्रकम् ।
षष्टयघ्रियुतमाद्यङ्गं युक्त्या नास्यङ्गसंयुतम् ॥ १२३ ॥
सर्वालङ्कारसंयुक्तं युगाख्यं तन्मनोहरम् ।
सप्तभक्त्या विशालं तु तस्माद् ड्यंशाधिकायतम् ॥ १२४॥
त्रिभक्तिविस्तुतं पञ्चभक्तिदैर्ध्य सभाङ्गणम् ।
परितो मण्डपं द्वयंशमिष्टदिग्गतभित्तिकम् ॥ १२५ ॥
त्रिभक्तिविस्तृतं भागनिर्गमं मुखभद्रकम् ।।
युक्तया नास्यङ्गसंयुक्तं द्विसतत्यङ्घिकान्वितम् ।। १२६ ॥
सर्वालङ्कारसंयुक्तं द्रोणाख्यं मण्डपं भवेत्।
अष्टभक्त्या विशालं तु तस्माद् यंशाधिकायतम् ॥ १२७ ॥
द्विचतुर्भागविस्तारायाम मध्ये जलस्थलम् ।
परितोऽलिन्द्रमेकांशं बाह्य ड्यंशेन मण्डपम् ॥ १२८ ॥
त्यक्तमध्याघिसंयुक्तमिएदिग्गतभित्तिकम् ।
साष्टषष्टयघिसंयुक्तं पूर्ववन्मुखभद्रकम् ।। १२९ ॥
प्रमुख वारमेकांशं मुखं सोपानसंयुतम्।
नानालङ्कारसंयुक्तं सुरादीनां तु खर्वटम् ॥ १३॥
नवभक्तिविशालं तु तस्माद् द्वयंशाधिकायतम् ।
एकत्र्यंशं तु विस्तारायामं मध्ये जलस्थलम् ॥ १३१ ॥
परितोऽलिन्द्रमेकांशं बाह्ये यंशेन मण्डपम् ।
त्यक्तमध्याधिसंयुक्तं बाह्ये बारं तु भागतः ।। १३२॥