पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८४
मयमते।।।

कणे लालकुख्यं स्थादूवें हाराभिमण्डितम् ।
चतुर्मित्तिविस्तारनिर्गमं दिक्षु भद्रकम् ॥ १११ ॥
पार्थे सोपनसंयुक्तं सर्वालङ्कारसंयुतम् ।
देवहिजनरेन्द्राणां चतुरश्रं द्विरष्टधा ॥ ११२ ॥
इत ऊर्ध्व द्विपाश्र्धकवृद्ध्या द्वात्रिंशदंशकम् ।
विस्तारं चतुरश्राभं मण्डपं कारयेद् बुधः ॥ ११ ॥
विवृतं संवृतं वापि कुड्यस्तम्भं प्रयोजयेत् ।
यथायुक्ति यथाशोभं तथा कुर्याद् विचक्षणः ॥ ११ ॥
एतेषामायताश्राभं मण्डपं प्रविधीयते ।
त्रिभक्तिविस्तृतं तस्माद् द्विभक्त्याधिकमायतम् ॥११५॥
पुरतो वारमेकांशं त्रिरष्टाङ्घिसमन्वितम् ।
विशन्नास्यङ्गसंयुक्तं धनाख्यं तद् धनावहम् ॥ ११६ ॥
विस्तारं चतुरंशैस्तु तस्माद् यंशाधिकायतम् ।
मण्डपं परितो भक्त्या शेषमङ्गणकं भवेत् ॥ ११७ ॥
द्विभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ।
चतुरष्टाङ्घिसंयुक्तमाघङ्गेषु बहिर्बहिः ॥ ११८ ॥
सर्वालङ्कारसंयुक्तं सुभूषणमिति स्मृतम् ।
पञ्चभक्त्या विशालं तु तस्माद् यंशाधिकायतम्॥११॥
मण्डपं परितोऽशेन शेषं कूटं तु वाङ्गणम् ।
त्रिभक्तिविस्तृतं चैकभक्त्या तन्मुखभद्रकम् ॥ १२० ॥
आयङ्गमष्टपञ्चाधिसंयुक्तं तद् विचित्रकम् ।
सर्वालङ्कारसंयुक्तं मङ्गल्यं सर्वदेशिकम् ॥ १२१ ॥