पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८३
मयमते।।।

द्विभक्त्या गर्भकूटं स्यादेकाशालिन्द्रमावृतम् ।
एकांशमन्तरालं स्यादप्रच्छन्नतलान्वितम् ॥ १.० ॥
चतुष्कर्णे द्विभत्त्यैवमङ्गणं वोर्ध्वकूटकम् ।
द्विचतुर्विस्तृतायाम कोष्ठं वाङ्गणकं दिशि ॥१.१॥
तेषां बाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ।
इष्टदिक्कुड्यसंयुक्तमिष्टदिग्भद्रसंयुतम् ॥ १.२ ॥
साष्टद्विशतपादं स्यादाद्यङ्गे तु विधीयते।
देवद्विजनरेन्द्राणां गर्भाख्यं तन्मनोहरम् ॥ १०३ ॥
त्रिःपञ्चभक्तिविस्तारं समं तु चतुरश्रकम् ।।
त्रिभागं मध्यरङ्गयूकूटं वाङ्गणमेव वा ॥ १०४ ॥
परितोऽलिन्द्रमंशेन भागैकेनान्तरालकम् ।।
शेषं पूर्ववदुद्दिष्टं कोष्ठकं भागतोऽधिकम् ॥ १.५ ॥
द्वात्रिंशद्विशतं पादमाद्यङ्गे प्रविधीयते ।
सर्वालङ्कारसंयुक्तं माल्याख्यं मण्डपं भवेत् ॥ १०६ ॥
माल्या तं समानं तु भागैः षोडशभिर्युतम् ।
द्विभक्त्यैवोर्ध्वकूटं तु भागेनालिन्द्रमावृतम् ॥ १०७ ॥
ध्येकभक्त्या मुखे भद्रं कर्णे लाङ्गलभित्तिकम् ।
पार्धे सोपानसंयुक्तं चित्रप्रस्तरसंयुतम् ॥ १०८ ॥
तहहिद्यशमानेन जलपादं समन्ततः ।
तबाह्ये तु चतुर्भक्त्या परितो मण्डपं भवेत् ॥ १.९॥
द्विभक्तिचतुरश्राभमेकांशं व्यवधानकम् ।
द्विरष्टाङ्गणं तन्मध्ये परितः प्रविधीयते ॥ ११ ॥