पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
मयमते।।।

कूटशालान्तरे तस्य ऋकरीकृतमार्गकम् ।
जात्यादिमुखभद्राङ्गं सर्वावयवशोभितम् ॥ ८९ ॥
ऊर्चे सभाङ्गिनि प्राङ्गं प्रस्तरं नवबोधकम् ।
विवृतं संवृतं वापि गुह्यागुह्यार्थमाचरेत् ॥९॥
कुलधारणमित्युक्तं समं तु चतुरश्रकम् ।
भाग-दशभिर्युक्तं समं तु चतुरश्रकम् । ९१ ॥
अष्टदिक्षु च मध्ये तु द्विभक्त्यैवोकूटकम् ।
तत्तद्वाह्ये तु भागेन परितोऽलिन्द्रमिष्यते ॥ ९२ ॥
अङ्गणं वा सभास्थानं कर्णे लाङ्गलभित्ति(के ? कम्) ।
चतुर्व्यशेन विस्तारं निर्गमं स्याच्चतुर्दिशि ॥ ९३ ॥
पार्थे सोपानसंयुक्तं पञ्जरैरष्टभिर्युतम् ।
षष्टयुत्तरशतस्तम्भमाद्यङ्गे प्रविधीयते ॥ ९४ ॥
युक्त्या नास्यङ्गसंयुक्तं सुखाङ्गं नाम मण्डपम् ।
सौख्यं त्रयोदशांशेन चतुरश्रसमाकृति ॥ ९५॥
परितो मण्डपं यंशं भागेन ऋकरीपथम् ।
त्रिभाग मध्यरङ्गयूज़कूटं सस्थूपिनप्रिकम् ॥ ९६ ।।
चतुष्कर्णे द्विभागेन त्यक्तमध्याचिकूटकम् ।
दिक्षु हिज्यशविस्तारायाम कोष्ठचतुष्टयम् ॥ ९७ ॥
नन्दादिमुखभद्राङ्गमिष्टदिग्गतकुड्यकम् ।
चतुरशीतिभिर्युक्तशतस्तम्भसमन्वितम् ॥ ९८ ॥
सर्वालङ्कारसंयुक्तं देवद्विजमहीभृताम् ।
द्विःसप्तभित्तिविस्तारं समं तु चतुरश्रकम् ॥ ९९ ॥