पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८१
पञ्चविंशोऽध्यायः।।।।

तदेव जलपादं तु ब्रह्मस्थलमितीष्यते ।
परितो वारमेकांशं यंशेनावृतमण्डपम् ॥ ७८ ॥
पूर्ववन्मुखभद्रं स्यादिष्टदिग्गतभद्रकम् ।
ब्रह्मस्थाने विधातव्यं ग्रामादीनां सनातनम् ॥ ७९ ॥
नवभक्तियुतं सम्यक् पतिपतयाचिकान्वितम् ।
ज्यशैकविस्तृतं भद्रं चतुर्दारसमन्वितम् ॥ ८० ॥
सोपानं प्रमुखे तस्य कर्णे लाङ्गलभित्तिकम् ।
नवरङ्गैरलङ्कुर्यात् षडष्टैवाल्पनासिकम् ॥ ८१ ।।
नवब्रह्म सुपूज्यं तद् ग्रामवेश्मादिमध्यगम् ।
सर्वालङ्कारसंयुक्तं दाख्यं तन्मनोहरम् ॥ ८२॥
दशांशचतुरश्राभं सहादशशताधिकम् ।
नवकूटसमायुक्तमेकैकांशान्तरालकम् ।। ८३ ॥
एतत् कौशिकमित्युक्तं चतुरश्रं तु जातिकम् ।
नन्दमेकानने भद्रं हिमुखं भद्रकौशिकम् ॥ ८ ॥
त्रिमुखं जयकोशं स्यात् पूर्णकोशं चतुर्मुखम् ।
अधिष्ठानाविवत् कर्णे लाङ्गलाकारभित्तिकम् ॥ ८५ ॥
सर्वालङ्कारसंयुक्तं षडष्टैवाल्पनासिकम् ।
एकादशविभागेन समं तु चतुरश्रकम् ॥ ८६ ॥
परितो मण्डपं तस्य बाह्ये भागेन कारयेत् ।
चतुष्कर्णे द्विभागेन चतुष्कूटसमन्वितम् ॥ ८७ ।।
चतुर्दिग्वित्रिभक्त्या तु विपुलायतकोष्ठकम् ।
त्रिभक्तिचतुरश्रं तु मध्यरफ्यू-कूटकम् ॥ ८८ ॥