पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८०
मयमते।।।

द्वात्रिंशत्पादसंयुक्तं चतुर्विंशतिनासिकम् ।
पञ्जरैरष्टभिर्युक्तं कुड्यं कुम्भलतान्वितम् ।। ६७ ॥
चतुर्दिक्षु चतुरिं कर्णे लाङ्गलभित्तिकम् ।
मध्यमेऽङ्गणयुक्तं वा त्रिभक्त्या विस्तृताविकम् ॥६॥
धाम्नः स्थलसमं तस्य पङ्गयष्टांशोनमेव वा ।
नृत्तमण्डपमेतत् स्यात् स्नानार्थ वा तदेव हि ॥१९॥
षड्भक्ति चतुरश्राभं मध्येऽष्टस्तम्भकूटकम् ।
द्विभक्तिविस्तृतं चैकभक्त्या निष्क्रान्तवक्रकम् ॥ ७० ॥
षट्पष्टयङ्घिसमायुक्तं त्यक्तमध्यस्थपादकम् ।
चतुर्विशतिनास्यङ्गं सर्वालङ्कारसंयुतम् ॥ ७१ ॥
शिवाख्यं मण्डपं सर्ववासे योग्यं सनातनम् ।।
सप्तांशचतुरश्राभं षष्टयचिकसमायुतम् ॥ ७२ ॥
नवभागेन तन्मध्ये कूटं वा मण्डिताङ्गणम् ।
सद्वात्रिंशतिनास्यङ्गं चतुर्दिशि सवारणम् ॥ ७३ ॥
त्रिभागैकांशविस्तारनिर्गमं मुखभद्रकम् ।
मध्यरङ्गसमोपेतमिष्टदिग्गतभित्तिकम् ॥ ७४ ॥
आस्थानमण्डपं चैतत् तैतिलानां महीभृताम् ।
आभिषेकादिकार्येषु योग्यं वेदमिति स्मृतम् ॥ ७५ ॥
अष्टभक्त्या युगाअं स्यादशीतिपादसंयुतम् ।।
चतुर्भागोकूटं तु द्विभागेन तु भद्रकम् ॥ ७६ ।।
चतुर्दिशि चतुरं पार्श्व सोपानसंयुतम् ।
सर्वालङ्कारसंयुक्तमलङ्कतमिति स्मृतम् ॥ ७७ ॥