पृष्ठम्:मयमतम् TG Sastri 1919.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
तृतीयोऽध्यायः ।।

पशुगन्धसमा श्रेष्ठा सर्वबीजप्ररोहिणी ।
एकवर्णा घना स्निग्धा सुखसंस्पर्शनान्विता ॥ ३ ॥
बिल्वो निम्बश्च निर्गुण्डी पिण्डितः सप्तपर्णकः ।
सहकारश्च षड्वृक्षैरारुढा या समस्थला ॥ ४ ॥
श्वेता रक्ता च पीता च कृष्णा कापोतसन्निभा ।
तिक्ता च कटुका चैव कपायलवणाम्लका ॥ ५ ॥
मधुरा षड़सोपेता सर्वसम्पत्करी धरा ।
प्रदक्षिणोदकवती वर्णगन्धरसैः शुभा ॥ ६ ॥
पुरुषाञ्जलिमात्रे तु दृष्टतोया मनोर[१]मा ।
निष्कपाला निरुपला कृमिवल्मीकवर्जिता ॥ ७ ॥
अस्थिवर्ज्या नसुषिरा तनुवालुकसंयुता ।
अङ्गारैवृक्षमूलैश्च शूलैश्चापि पृथग्विधैः ॥ ८ ॥
पङ्कसङ्करकूपैश्च दा[२]रुभिष्टकैरपि ।
शर्कराभिरयुक्ता या भस्माद्यैस्तु तुषैरपि ॥ ९ ॥
सो शुभा सर्ववर्णानां सर्वसम्पत्करी धरा ।
दध्याज्यमधुगन्धा च तैलासुग्गन्धिका[३] च या ॥ १० ॥
शवमीनपक्षिगन्धा (या १) सा धरा निन्दिता वरैः ।
सभाचैत्यसमीपस्था नृपमन्दिरसंश्रिता ॥ ११ ॥
देवालयसमीपस्था कण्टकिद्रुमसंयुता।
वृत्तत्रिकोणविषमा वज्राभा कच्छपोन्नता ॥ १२॥


  1. 'हरा ।' ख. पाठः.
  2. 'दरीभि' गंं. पाठः
  3. 'नी'ख.पाठः.