पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मयमते

कषायमधुरं सम्यक् कथितं तत् सुखप्रदम् ।
व्यासाष्टांशाधिकायामं रक्तं तिक्तरसान्वितम् ॥ ११ ॥
प्राङ्निम्नंं तत् प्रविस्तीर्णमश्वत्थद्रुमसंयुतम् ।
प्रशस्तं भूभृतां वस्तु सर्वसंपत्करं सदा ॥ १२ ॥
षडंशेनाधिकायामं पीतमम्लरसान्वितम् ।।
प्लक्षद्रुमयुतं पूर्वावनतं शुभदं विशाम् ॥ १३ ॥
चतुरंशाधिकायामं वस्तु प्राक्प्रावणान्वितम् ।
कृष्णं तत् कटुकरसं न्यग्रोधद्रुमसंयुतम् ॥ १४ ॥
प्रशस्तं शूद्रजातीनां धनधान्यसमृद्धिदम् ।।
एवं प्रोक्तो वस्तुभेदो द्विजानां
भूपानां वै वैश्यकानां परेषाम् ।
योग्यं सर्वे भूसुराणां सुराणां
भूपानां तच्छेषयोरुक्तनीत्या ॥ १५ ॥

इति मयमते वस्तुशास्त्र वस्तुप्रकारो नाम

द्वितियोध्यायः ।।


अथ तृतीयोऽध्यायः ।।

देवानां तु[१] द्विजातीनां चतुरश्रायताः श्रुताः ।
वस्त्वाकृतिरनिन्द्या सावाक्प्रत्यग्दिक्समुन्नता ॥१॥
हयेभवेणुवीणाब्धिदुन्दुभिध्वनिसंयुता ।।
पुन्नागजातिपुष्पाजधान्यपाटलगन्धकैः ॥ २ ॥


  1. 'च' ख. पाठः.