पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
द्वितीयोऽध्यायः ।

भूमिप्रासादयानानि शयनं च चतुर्विधम् ।
भूरेव मु[१]ख्यवस्तु स्यात् तत्र जातानि यानि हि ॥२॥
प्रासादादीनि वास्तूनि वस्तुवा[२]द् व[३]स्तुसंश्रया[४]त् ।
वस्तून्येव हि तान्येव प्रोक्तान्यस्मिन् पुरातनैः ॥ ३ ॥
वर्णगन्धरसाकारदिक्शब्दस्पर्शनैरपि ।।
परीक्ष्यैवं यथायोग्यं गृहीता[५]वधिनिश्चिता ।। ४ ।।
या सा भूमिरिति ख्याती वर्णानां च विशेषतः ।
द्विविधं तत् समुदिष्टं गौणमङ्गीत्यनुक्रमात् ॥ ५ ॥
ग्रामादीन्येव गौणानि भवन्त्यङ्गी मही मता ।।
सभा शाला प्रपा रङ्गमण्डपं मन्दिरं तथा ॥ ६ ॥
प्रासाद इति विख्यातं शिबिकागिल्लिकारथम् ।।
स्यन्दनं चैवमानीकं यानमित्युच्यते बुधैः ॥ ७ ॥
मञ्चम[६]ञ्चिलिका काष्ठं पञ्जरं फलकासनम् ।।
पर्यङ्कं बालपर्यङ्कं शयनं चैवमादिकम् ॥ ८ ॥
चतुर्णामधिकाराणां भूरेवादौ [७]प्रवक्ष्यते ।
भूतानामादिभूतवादाधारवाजगस्थितेः ॥ ९ ॥
चतुरश्नद्विजातीनां वस्तु श्वेतमनिन्दितम् ।
उदुम्बरमोपेतमुत्तरप्रवणं वरम् ॥ १० ॥


  1. 'सर्वाधारा स्या' क. पाठः.
  2. 'म' ख. ग. पाठः.
  3. 'य'
  4. 'ये' ख. पाठः.
  5. 'व' ग. पाठः.
  6. 'श्चद्विका' क. ग. पाठः.
  7. 'घ' क.पाठः.