पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मयमते

एकभूमिविधानं च द्वितलस्य तु लक्षणम् ।
त्रितलस्य विधानं च चतुर्भूम्यादिलक्षणम् ॥ ७ ॥
ससारं परिवाराणां गोपुराणां तु लक्षणम् ।
मण्डपादिविधिं चैव शालानां चैव लक्षणम् ॥ ८॥
गृहविन्यासमार्ग च गृहवेशनमेव च ।
राजवेश्मविधानं च द्वारविन्यासलक्षणम् ॥ ९ ॥
यानानां शयनानां च लक्षणं लिङ्गलक्षणम् ।।
पीठस्य लक्षणं सम्यगनुकर्मविधि तथा ॥ १० ॥
प्रतिमालक्षणं देवदेवीनां मानलक्षणम् ।।
चक्षुरुन्मीलनं चैव संक्षिप्योह यथाक्रमम् ॥ ११ ॥
पितामहद्यैरमरैर्मुनीश्वरै-
र्यथा यथोक्तं सकलं मयेन तत् ।
तथा तथोक्तं सुधियां दिवौकसां
नृणां च युक्याखिलवेस्तुलक्षणम् ॥ १२ ॥

इति मयमते वस्तुशास्त्रे सहाध्यायः

प्रथमः ।


अथ द्वितीयोऽध्यायः

अभर्त्याश्चैव मर्याश्च यत्र यत्र वसन्ति हि ।
तद् वस्तित्वति मतं तज्ज्ञैस्तद्भेदं च वदाम्यहम् ॥ १ ॥


१. 'यैव य’ ख. पाठः. २. 'बा' कृ. पाठः. 17