पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः

मयमतं

नाम वस्तुशास्त्रं

श्रीमयमुनिविरचितम्


प्रणम्य शिरसा देवं सर्वज्ञं जगदीश्वरम्।
तं पृष्टवास्मादलं श्रुत्वा शास्ति शास्त्र यथाक्रमम् ।। १ ।।
तैतिलानां मनुष्याणां वस्त्वादीनां सुखोदयम् ।।
प्राज्ञो मुनिर्मयः कती सर्वेषां वस्तुलक्षणम् ॥ २ ॥
आदौ वस्तुप्रकारं च भूपरीक्षापरिग्रहम् ।।
मानोपकरणं चैव शङ्कुस्थापनमार्गकम् ॥ ३ ॥
सपदं खरविन्यासं बलिकर्मविधि तथा ।
ग्रामादीनां च विन्यासं लक्षणं नगरादिषु ।। ४ ॥
भूलम्बस्य विधानं च गर्भविन्यासलक्षणम् ।
उपपीठविधि चैवाधिष्ठानानां तु लक्षणम् ॥ ५ ॥
स्तम्भानां लक्षणं चैव प्रस्तारस्य विधिक्रमम् ।
सन्धिकर्मविधानं च शिखराणां तु लक्षणम् ॥ ३ ॥


 १. स्त' ख. पाठः.

(O.P.T. 3192, 500, 9-11-1992. 16