पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७७
पञ्चविंशोऽध्यायः।।।।

तालगाढमथवैकमेखलं
 सर्वकुण्डकमकर्णयोनिकम् ॥ ४५ ॥
वृत्तसन्निभमथो तदाकृति
 वा युगेषुरसमात्रवपुलम् ।
व्यासवेदगुणभागतुङ्गकं
नाभिमब्जमिव कुण्डमध्यमे ॥ ४६३ ॥
न्यस्यैकांशं पञ्चभागे पुरस्तात्
 कोणस्यार्धाध गृहीत्वा ततस्तत् ।
कोणं यावद् भ्रामयेत् तद्वदन्यद्
 योन्याकारं स्याद् द्विसूत्रप्रयोगात् ॥ ४७३ ॥
व्यासे धर्माशेंऽशमूर्ध्वादधस्ता-
 नीत्वैव ज्यासूत्रकं पातयित्वा ।
तन्मानेन भ्रामयेदर्धचन्द्रं
 कुण्डं युक्त्या वस्तुविद्याविधिज्ञैः ॥ ४८३ ॥
क्षेत्रव्यासे षट्कृते चाष्टभागे
 मानेनानेन त्रिसूत्रं न्यसोद्ध ।
त्र्यनं प्रोक्तं द्विनवांशेऽशकं तद्-
 बाह्ये न्यस्य भ्रामयेद् वृत्तकुण्डम् ॥ ४९३ ॥
व्यासे बुद्धयंशेऽशकं पार्श्वयोस्तद्-
 बाह्ये न्यस्यानेन मानेन दध्यात् ।
मत्स्यं कृत्वा युग्मयुग्मं द्विपार्थात्
 षट्कोणं स्यात् पातयेत् सूत्रषट्कम् ॥ ५० ॥