पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
पञ्चविंशोऽध्यायः।।।।

प्रपारूपाङ्गपादान्ते चोत्तरादूर्ध्ववंशकम् ।
प्राग्वंशमनुवंशं च नालिकेरदलादिभिः ॥ २७ ॥
अन्यैरपि तथा पत्रैर्द्रव्यैः प्रच्छादिता प्रपा ।
प्राग्वदेवाधिकायामं चतुःषडष्टदशाङ्गलम् ॥ २८ ॥
पादविष्कम्भमेतेषां प्रमाणं सारदारुजम् ।
त्वक्सारं च यथालाभं तथा तत्र प्रयोजयेत् ॥ २९ ॥
पादोच्च पङ्क्तिनन्दाष्टसप्तषट्पञ्चभागिके ।
वेदिकोच्चं तु भागेन मध्ये रङ्गं प्रयोजयेत् ॥ ३० ॥
स्तम्भोत्सेधचतुर्भागे भागेनैव मसूरकम् ।
द्विभागं तलिपायामं भागेन प्रस्तरं भवेत् ॥ ३१ ॥
युग्मायुग्मद्विभक्त्यैकभक्त्या वा तद्विशालकम् ।
अष्टस्तम्भसमायुक्तं चतुःस्तम्भान्वितं तु वा ॥ ३२॥
प्रपादीनां तु संस्थानं यथा वा रङ्गमीरितम् ।
सर्वावयवसंयुक्तं मिश्रद्रव्यसमन्वितम् ॥ ३३ ॥
शालासभाप्रपाणां तु मण्डपानां तु मध्यमे ।
प्रतिष्ठितचतुःस्थानं त्रिमानं रङ्गमिष्यते ॥ ३४ ॥
मण्डपोपरिभूमस्तु मालिकामण्डपं भवेत् ।-
मण्डपोर्चे सशिखरं हितलं यदि सम्भवम् ॥ ३५ ॥
मध्यस्थभूमिदेशत्वात् प्रतिमध्यं तदुच्यते ।
मेरुजं चतुरश्रं स्याच्चतुष्पादेकभक्तिकम् ॥ ३६ ॥
नासिकाष्टकसंयुक्तं ब्रह्मासनमिति स्मृतम् ।
द्विभक्तिचतुरश्रं तु विजयं नाम मण्डपम् ॥ ३७ ॥