पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
मयमते।।।

आयाममष्टधा प्रोक्तं तेन मानेन योजयेत् ।
सायतं चापि तत् सर्व तन्नाम्नैव प्रपद्यते ॥ १६॥
सार्धद्विहस्तमारभ्य षटबडगुलवर्धनात् ।
अष्टहस्तान्तमद्ध्युच्चं त्रयोविंशत्प्रमाणकम् ॥ १७ ॥
त्रित्र्यङ्गलविवृद्ध्या वा स्तम्भोत्सेधाः प्रकीर्तिताः।
अष्टाङ्गलं समारभ्यैवार्धाङ्गुलबर्धनात् ॥ १८ ॥
नन्दपतयङ्गलं यावत् संख्यया पूर्ववत् ततिः ।
पादोच्चैरपि रुद्रांशधर्मनन्दाष्टभाजिते ॥ १९ ॥
मूलतारं तु भागेन तत्तद्भागोनमग्रतः।
पादोच्चार्धमधिष्ठानं सामान्यं सर्ववस्तुषु ॥ २०॥
पादोच्चे पञ्चभागे तु द्विभागोच्चं तु वा तलम् ।
स्तम्भोत्सेधत्रिभागैकं वा मसूरकतुङ्गकम् ॥ २१ ॥
सोपपीठमधिष्ठानं केवलं वा ममूरकम् ।
अधिष्ठानसमोच्चं वा द्विगुणं त्रिगुणं तु वा ॥ २२ ॥
उपपीठविधाने तु यदुक्तं तेन वोन्नतम् ।
उपपीठसमुत्सेधं यथायुक्ति यथारुचि ॥ २३ ॥
उपपीठतलस्तम्भप्रस्तरालकृतिकमम् ।
प्राग्वदेव समुद्दिष्टं शेषं युक्त्या समाचरेत् ॥ २४ ॥
अधिष्ठानोपरिस्तम्भं प्रस्तरं च त्रिवर्गकम् ।
कपोतप्रतिसंयुक्तं यत् तन्मण्डपमिष्यते ॥ २५॥
मण्डं सुभूषणं तं पातीति मण्डपमिष्यते ।
सामान्यं सर्ववर्णानां प्रपारूपं वदाम्यहम् ॥ २६ ॥