पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
पञ्चविंशोऽध्यायः।।।।

आस्थानमण्डपं चैव बलालोकनमण्डपम् ।
सन्धिकार्यार्हकं क्षौरं भुक्तिकर्मसुखान्वितम् ॥ ५ ॥
तेषां कमेण नामानि वक्ष्यन्ते विधिनाधुना ।
मेरुकं विजयं सिद्धं पद्मकं भद्रकं शिवम् ॥ ६ ॥
वेद चालङ्कृतं दर्भ कौशिकं कुलधारिणम् ।
सुखाङ्गं सौख्यकं गर्भ माल्यं माल्यागुतं तथा ॥ ७ ॥
देवहिजनरेन्द्राणां द्विरष्टचतुरश्रकम् ।
धनं सुभूषणाख्यं चाप्याहल्यं सुगकं तथा ॥ ८ ॥
कोणं च खर्वटं चैव श्रीरूपाख्यं च मङ्गलम् ।
एतान्यष्टौ सुरादीनां नृपाणामायताश्रकम् ॥ ९ ॥
मार्ग सौभद्रकं चैव सुन्दराख्यं तु मण्डपम् ।
साधारणं च सौख्यं च तथैवेश्वरकान्तकम् ॥ १० ॥
श्रीभद्रं सर्वतोभद्रमित्यष्टौ वैश्यशूद्रयोः ।
भक्तिमानं तथा पादायामं पादविशालकम् ॥ ११ ॥
अधिष्ठानं तदाधारं प्रपा मध्यमरङ्गकम् ।
अलङ्कारं क्रमाद् वक्ष्ये स्तम्भपक्षं तदाकृतम् ॥ १२ ॥
सार्धहस्तं समारभ्य षषडङ्गुलबर्धनात् ।
पञ्चहस्तावधिर्यावत् त्रिः पञ्चैवाघ्रिकान्तकम् ॥ १३ ॥
अथ विस्तारभक्त्यैषामायाम प्रविधास्यते ।
एकद्वित्रिचतुष्पञ्चभागे भक्त्यन्तरे कृते ॥ १४ ॥
एकभागेन वृद्धिः स्यादायामं स्वविशालतः।
(अथ) स्वभक्तिविसृतात् त्रिमात्रा करान्ततः ॥ १५ ॥