पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
चतुर्विंशोऽध्यायः।।।।

रुद्राकत्रयोदशांशैः पञ्चपट्सप्तभूमयः ।
पूर्ववद् भूमिभागं च कूटकोठादि पूर्ववत् ॥ १२४ ॥
अन्तः पादोत्तरैर्युक्तं चतुर्दिग्गतभद्रकम् ।
गृहपिण्ड्यलिन्द्रहाराभिण्डितं खण्डहर्म्यवत् ॥ १२५ ॥
शालाकारशिरः कुर्यान्महानासी मुखेऽमुखे ।
पार्श्वयोः क्षुद्रनास्यश्च यथायुक्त्या प्रयोजयेत् ॥ १२६ ॥
श्रीविशालस्य संस्थानं पञ्चांशे वंशमायतम् ।
पूर्ववद् भूमिभागं च मूलतः ऋकरीकृतम् ॥ १२७ ॥
शिरः क्रकरकोष्ठं च सभा वा तत्र शीर्षकम् ।
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कतम् ॥ १२८ ॥
चतुर्दिक्षु महानासी क्षुद्रनासीविभूषिता ।
स्वस्तिकाकृतिवन्नास्यः सर्वत्र परिकल्पयेत् ॥ १२९ ॥
चतुर्मुखस्य संस्थानं चतुर्भागाधिकायतम् ।
पूर्ववद् भूमिभागं च दिशाभद्रकसंयुतम् ॥ १३० ॥
हारामध्ये तु कर्तव्यं कुड्यकुम्भलतान्वितम् ।
तोरणैर्जालकैवृत्तस्फुटिताद्यैरलङ्कतम् ॥ १३१ ॥
कूटैनीडैस्तथा कोष्ठैः क्षुद्रकोष्ठेविभूषितम् ।
गृहपिण्ड्यिलिन्द्रहाराभिर्मण्डितं खण्डहर्म्यवत् ॥ १३२ ॥
सभाशिरस्तु वा शालाकारं वा शीर्षकं तु तत् ।
चतुर्नासिसमायुक्तं पार्श्वे द्वे हे तु नासिके ।। १३३ ॥
उपर्युपरिकूटाद्यैः सर्वाङ्गैः समलङ्कृतम् ।।
अन्तः सोपानसंयुक्तं द्वारगोपुरक त्रिधा ॥ १३४ ॥