पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
मयमते।।।

सभाकारशिरस्तस्य मुखे पृष्ठे द्विपार्श्वयोः ।
अयुग्मस्थूपिकायुक्तं द्वारप्रासादकत्रयम् ॥ ११३ ॥
स्वस्तिकस्य तु संस्थानं विस्तारद्विगुणायतम् ।
पङ्क्तिरुद्रार्कभागैस्तु वेदपञ्चर्तुभूमयः ॥ ११४ ॥
अन्तः पादोत्तरैर्युक्तं भूमिभागं च पूर्ववत् ।
कूटकोष्ठादिसर्वाङ्गैरन्धाराद्यैरल ङ्कतम् ॥ ११५ ॥
सभाशिखरसंयुक्तं स्वस्तिकाकृतिनासियुक् ।
अष्टनासि सभाग्रे तु अयुग्मस्थूपिकान्वितम् ॥ ११६ ॥
दिशास्वस्तिकसंस्थानं विस्तारद्विगुणायतम् ।
पूर्ववद् भूमिभागं च कूटकोठाद्यलकतम् ।। ११७ ॥
अन्धार्यन्धाग्हाराङ्गं खण्डहाभिमण्डितम् ।
मुखेऽमुखेऽतिभद्रांशं शिरश्चायतमण्डलम् ॥ ११८ ॥
महानासिचतुर्युक्तं चतुष्पञ्जरशोभितम् ।
अन्तःपादोत्तरैयुक्तं सर्वावयवसंयुतम् ॥ ११९ ॥
अनुक्तं पूर्ववत् सर्वमयुग्मस्थूपिकान्वितम् ।
पर्दलस्य तु संस्थानं विस्ताराद्विगुणायतम् ॥ १२० ॥
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलङ्कृतम् ।
परे पृष्ठे सभाग्रं स्याद् विस्तारव्यंशनिर्गमम् ॥ १२१॥
शालाकारशिरोयुक्तं क्षुद्रनासीविभूषितम् ।
मुख पृष्ठे महानासी चतुप्पञ्जरशोभितम् ॥ १२२ ॥
अन्तः पादोत्तरैर्युक्तं द्वारहवें त्रिधोदितम् ।
मात्राकाण्डस्य संस्थानं विस्तारद्विगुणायतम् ॥ १२३