पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६७
चतुर्विंशोऽध्यायः।।।।

चतुष्कर्णे तु सोपानमुपपीठे प्रशस्यते।
यथायुक्ति यथाशोभं तथा योज्यं विचक्षणैः ॥ ८ ॥
गोपुराणामलङ्कारं प्रत्यकं वक्ष्यतेऽधुना ।।
मण्डपाभा यथा द्वारशोभा तत्र प्रकीर्तिता ॥ ८१ ॥
दण्डशाला यथा द्वारशाला तत्र विधीयते।
प्रासादाकृतिवद् द्वारप्रासाद प्रोच्यते बुधैः॥ ८२ ॥
मालिकाकृतिवद् द्वारहवें तु प्रोच्यते बुधैः ।
सशालाकृतिसंस्थान द्वारगोपुरमिष्यते ॥ ८३ ॥
सर्वेषु गोपुरं कुर्याद् यथायुक्ति विशेषतः ।
श्रीकरस्याप्यलङ्कारं प्रवक्ष्याम्यनुपूर्वशः ॥ ८४ ॥
विस्तारद्विगुणं वापि पादोनद्विगुणायतम् ।
पञ्चसप्तनवांशं तु विस्तारे प्रविधीयते ॥ ८५ ॥
विस्तारांशप्रमाणेन दैर्ध्यभागांश्च कल्पयेत् ।
एकद्वित्रितलोपेतं सर्वावयवसंयुतम् ॥ ८६ ॥
स्वस्तिकाकृतिकं नासी सर्वत्र प्रविधीयते ।
मुखेऽमुखे महानासी वंशनासी द्विपार्श्वयोः ॥ ८७ ॥
शिरःक्रकरकोष्ठं वा युग्मस्थूपिसमायुतम् ।
लुपारोहिशिरो वापि मण्डपाकृतिरेव वा ॥ ८८ ॥
रतिकान्तस्य संस्थानं विस्ताराध्यर्धमायतम् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ॥ ८९ ।।
शालाकारशिरस्तस्मिन् षण्णासी मुखपृष्ठयोः ।
सार्धकोटिसमायुक्तं युग्मस्थूपिसमायुतम् ॥ १० ॥