पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
मयमते।।।

सार्धाशं भित्तिविष्कम्भमेकभागमलिन्द्रकम् ।
एकांशं खण्डहर्म्य स्यात् कूटकोष्ठादि पूर्ववत् ॥ ६९ ॥
मुखेऽमुखे महाशाला पञ्चाशं च षडंशकम् ।
सर्वावयवसंयुक्तं चतुर्भोममिदं वरम् ॥ ७० ॥
तारे रुद्रांशके नालीगेहं तबिभिरंशकैः ।
द्विभागं भित्तिविष्कम्भमेकभागमलिन्द्रकम् ॥ ७१ ॥
एकांशं खण्डहवें स्याच्छेषं पूर्ववदाचरेत् ।
एवं पञ्चतलं विद्यात् षट्तलं चाधुनोच्यते ॥ ७२ ॥
विपुले द्वादशांशे तु नालीगेहं युगांशकम् ।
द्विभागं भित्तिविष्कम्भमंशेनान्धारकं भवेत् ॥ ७३ ।।
अंशेन खण्डहयं स्यात् कूटकोष्ठादि पूर्ववत् ।।
तारे त्रयोदशांशे तु गर्भगेहं युगांशकम् ॥ ७४ ॥
यंशाध भित्तिविष्कम्भमेकभागमलिन्द्रकम् । ।
एकांशं खण्डहवें स्यात् कूटकोष्ठादि पूर्ववत् ॥ ७५ ॥
मुखेऽमुखे महाशाला षड्भागेन विधीयते ।
पञ्जरैर्हस्तिपृष्ठश्च पक्षशालादिभिर्युतम् ॥ ७६ ॥
नानामसूरकस्तम्भवेदीजालकतोरणम् ।
एवं सप्ततलं प्रोक्तं गोपुरं सार्वदेशिकम् ॥ ७७ ॥
मूलद्वारस्य विस्तारे पञ्चभागेन हीनकम् ।
चतुर्भागैकहीनं वोपरिष्टाद् द्वारविस्तृतम् ॥ ७८ ।।
उपर्युपरि वेशं च मध्यपादोत्तरैयुतम् ।
गर्भागारे तु सोपानं ह्युपर्युपरि विन्यसेत्॥ ७९ ॥