पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
चतुर्विंशोऽध्यायः।।।।

कपोतोच्चं तु भागेन तत्सम कन्धरोदयम् ।
सत्रिपादाश्विनीभागं शिरःशेष शिखोदयम् ॥ ५८ ॥
एवं भागानि कर्तव्यान्युर्वीसंख्याक्रमेण तु । -
विस्तारे पञ्चभागे तु नालीगेहं त्रियंशकम् ॥ ५९ ॥
शेषं तु भित्तिविष्कम्भमेकभूमेर्विधीयते ।
विस्तारे सप्तभागं स्याद् गर्भगेहं युगांशकम् ।। ६. ॥
शेषं तु भित्तिविष्कम्भमेकांशं कूटविस्तृतम् ।
कोष्ठकं ज्यशकं तारे पञ्चांशं स्यात् तदायते ॥ ६१॥
कूटकोष्ठकयोर्मध्ये पञ्जरादिविभूषितम् ।।
एवं द्वितलमुद्दिष्टं त्रितलस्य विधीयते ॥ २ ॥
विस्तारे नवभागे तु नालीगेहं त्रियंशकम् ।
गृहपिण्ड्यलिन्द्रहारा भागेन परिकल्पयेत् ॥ ६३ ॥
कूटकोष्ठादिसर्वाङ्गं पूर्ववत् परिकल्पयेत् ।
शेषं तु भित्तिविष्कम्भमेकांशं कूटविस्तृतम् ॥ ६४ ॥
शालायामं त्रिभागं स्यादेकांशं लम्बपञ्जरम् ।
हाराभागमथार्ध स्यादायामे कोष्ठकायतम् ॥ ६५ ॥
पञ्चाशं वा षडंशं वा ऊर्श्वे सप्तांशविस्तृतम् ।
कूटमंशं द्विभागेन शालायामं द्विभागिकम् ॥ ६६ ॥
हारायां क्षुद्रनीडं तु अर्धभागमिति स्मृतम् ।
शालायामं तु पञ्चांशमायामे प्रविधीयते ॥ ६७ ॥
एवं त्रितलमाख्यातं शेषमूह्यं विचक्षणैः ।
तारे पङ्क्तयंशके नालीगेहं तत्रिभिरंशकैः ॥ ६८ ।।