पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
मयमते।।।

द्विभागं प्रस्तरोच्चं स्यात् ज्यशार्ध चरणायतम् ।
पादोनाशकं मञ्चं पादायामं त्रियशकम् ॥ ४७ ॥
सार्धाशमूर्ध्वमञ्चोच्चं द्वयंशाध पाददैर्घ्यकम् ।
सपादांशं कपोतोच्चं द्वयंशं स्यात् तलिपायतम् ॥ ४८ ॥
प्रस्तरोच्चं तु भागेन कन्धरं भागमिष्यते ।
द्वयंशाध शिखरोत्सेधं शेषं स्थूप्युच्छ्रयं भवेत् ॥ ४९ ।।
उत्तरादिशिखान्तं स्यादेकोनत्रिंशदंशकम् ।
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकैः॥ ५० ॥
पादोनद्वयंशक मञ्चं व्यंशाध पाददैर्ध्यकम् ।
सत्रिपादांशकं मञ्चं त्रिपादं तलिपायतम् ॥ ५१ ॥
सार्धाशं प्रस्तरोत्सेधं द्वयंशार्धं पाददैर्ध्यकम् ।
सपादांशं कपोतोञ्चमूर्ध्वभागं हिभागतः ॥ ५२ ॥
प्रस्तरोच्चं तु भागेन कन्धरं तत्समं भवेत् ।
सायंशं शिरस्तस्माच्छेषभागं शिखोदयम् ॥ ५३ ॥
एवं तु षट्तलं प्रोक्तं सप्तभौममथोच्यते।
उत्तरादिशिखान्तं यन्मानं षट्त्रिंशदंशकम् ॥ ५४ ॥
मञ्च साङ्घिद्वयं सार्धवेदांशं पाददैर्ध्यकम् ।
द्विभागं प्रस्तरोत्सेधं पादोच्चं चतुरंशकम् ॥ ५५ ॥
सत्रिपादांशकं मञ्चं व्यंशार्ध चरणायतम् ।
पादोनद्वयंशमञ्चोच्चं त्रिपादं पाददैर्घ्यकम् ।। ५६ ॥
सार्धाशं प्रस्तरोच्चं तु मंशार्ध तलिपायतम् ।
सपादभागमञ्चोच्चमूर्ध्वपादं द्विभागिकम् ॥ ५७ ।।