पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५९
चतुर्विंशोऽध्यायः।।।।

सोपपीठमधिष्ठानं पादोच्चमुत्तरान्तकम्।
शेषं तत्स्थूपिपर्यन्तं भागमानं विधीयते ॥ ३६ ।।
सपादभागमश्चोच्चं कन्धरोच्चं तदंशकम् ।
सत्रिपादहिभागं तु शिरःशेषं शिखोदयम् ॥ ३७ ॥
एवमेकतलं प्रोक्तं द्वितले भागमुच्यते ।
उत्तरादिशिखान्तं यन्नवधा विभजेत् समम् ॥ ३८॥
सपादभागमञ्चोच्चं यंशाधं चरणायतम् ।
भागैकं प्रस्तरोत्सेधमेकांशं कन्धरोदयम् ॥ ३९ ॥
सार्धाशं शिरस्तुङ्गं शेषभागशिखोदयम् ।
एवं द्वितलमाख्यातं त्रितले भागमुच्यते ॥ ४०॥
स्थूप्यन्तमुत्तरान्तं च कृत्वोच्चं द्वादशांशकम् ।
सपादांशं कपोतोच्चं यंशाध चरणायतम् ॥ ४१ ॥
भागैकं प्रस्तरोत्सेधं द्विभागं पाददैय॑कम् ।
त्रिपादं तत्कपोतोच्चमंशं ग्रीवोदयं भवेत् ॥ ४२ ॥
सार्धव्यंशं शिरस्तस्माच्छेषं स्थूप्युच्छ्रयं भवेत् ।
एवं त्रितलमाख्यातं चतुर्भीममथोच्यते ॥ ४३ ॥
उत्तरादिशिखान्तं यन्मानमष्टादशांशकम् ।
सत्रिपादांशकं मञ्चं त्रिभागं तलिपायतम् ॥ ४४ ॥
सार्धाशं प्रस्तरोच्चं स्याद् व्यंशं स्यात् स्तम्भदैय॑कम् ।
मश्चमंशं गलं भागं त्रिभाग शिखरोदयम् ॥ ४५ ॥
शेषभागं शिखामानं पञ्चभौममथोच्यते ।
स्थूप्यन्तमुत्तरान्तं च त्रयोविंशतिभागिकम् ॥ ४६ ॥