पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
मयमते।।।

क्षुद्रे मध्ये वरे द्वारविस्ताराः परिकीर्तिताः।
तत्तद्वैपुल्यवशतस्तत्तदुत्सेधमुच्यते ॥ २५॥
पञ्चांशेभ्यश्च सप्तांशं सप्तांशेभ्यो दशांशकम् ।
द्विगुणार्धाधिकं पादाधिकं पञ्चोच्छ्रयाः स्मृताः ॥ २६ ॥
मूलवस्तु निरीक्ष्यैव पादाधिष्ठानतुङ्गता।
चतुष्पञ्चर्तुसप्ताष्टनन्दपतीशभानुषु ॥ २७ ॥
भागेष्वेकैकभागोनं स्वाधिष्ठानान्ततुङ्गकम् ।
शेषं तदुपपीठं स्यात् पादबन्धं मसूरकम् ॥२८॥
प्रासादस्तम्भमानं वा वसुभागोनमेव वा ।
नन्दपतयंशहीनं वा गोपुरस्तम्भतुङ्गकम् ।। २९ ॥
छेदयेत् तदधिष्ठानं होमान्तं खातपादकम् ।
उत्तरान्तं समुत्सेधं तदर्ध द्वारविस्तृतम् ॥ ३० ॥
प्रवेशदक्षिणे गर्भमारूढे भित्तिके भवेत् ।
श्रीकरं रतिकान्तं च कान्तविजयमेव च ॥ ३१ ॥
विजयविशालकं चैव विशालालयमेव च।
विप्रतीकान्तं श्रीकान्तं श्रीकेशं च तथा पुनः॥३२॥
केशविशालकं स्वस्तिकं दिशास्वस्तिकमेव च ।
मर्दलं मात्रकाण्डं च श्रीविशालं चतुर्मुखम् ॥ ३३॥
एते पञ्चदश प्रोक्ता गोपुरस्याभिधानकाः ।
एंकादिपञ्चभूम्यन्तं शोभाद्यल्पप्रमाणकम् ॥ ३४ ॥
द्वितलादि षट्तलान्तं मध्यमक्रममुच्यते ।
त्रितला(द्याः? त्) सप्ततलपर्यन्तं चोत्तममुच्यते ॥ ३५॥