पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
मयमते।।।

अन्तः पादोत्तरैर्युक्तं मध्यवेशनसंयुतम् ।
कान्तविजयसंस्थानं तारत्रिद्व्यंशमायतम् ॥ ९१ ॥
पूर्ववद् भूमिभागं च कूटकोष्ठादि पूर्ववत् ।
अन्तः पादोत्तरैर्युक्तं नानाङ्गैः समलकृतम् ॥ ९२ ॥ .
शिखरे च मुखे पृष्ठे षण्णास्यः पार्श्वयोईयोः ।
सभाकारशिरस्तस्मिन्नयुग्मस्थूपिकान्वितम् ॥ ९३ ॥
द्वारशोभात्रयं प्रोक्तं द्वाराङ्गं मुखशोभितम् ।
विजयविशालसंस्थानं विस्तारहिगुणायतम् ॥ ९४ ॥
सपादं वाथ सार्ध वा पादोनद्विगुणायतम् ।
सप्तनन्दशिवांशैश्च तलं द्वित्रिचतुष्टयम् ॥ ९५ ॥
सालिन्द्रे त्रिचतुर्भामौ चतस्रो मुखपट्टिकाः ।
मुखे पृष्ठे महानासी सार्धकोटि सभद्रकम् ॥ ९६ ॥
पार्श्वयोः पञ्जरैर्युक्तं शालाकारशिरःक्रियम् ।
अयुग्मस्थूपिकोपेतं सर्वावयवसंयुतम् ॥ ९७ ।।
विशालालयसंस्थानं पादोनद्विगुणायतम् ।
पूर्ववद् भूमिभागं च कूटकोष्ठाद्यलङ्कृतम् ॥ ९८ ॥
अर्धकोटिसभद्रं स्याद् भद्रनासी मुखेऽमुखे ।
चतस्रः पार्श्वयो स्यः शालाशिखरसंयुतम् ॥ ९९ ॥
अयुग्मस्थूपिकोपेतं शेषं पूर्ववदाचरेत् ।
विप्रतीकान्तसंस्थानं त्र्यंशे द्वयंशाधिकायतम् ॥ १०॥
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् परिकल्पयेत् ।
पूर्ववद् भूमिभागं च चतुर्दिग्गतभद्रकम् ॥ १०१ ॥