पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
मयमते।।।

गर्भगृहार्धेन समौ पीठव्यासोच्छयौ मतौ।
एकद्वित्रिकरव्यासोत्सेधं वा बलिविष्टरम् ॥ ७४ ।।
गोपुरात्तु बहिः पीठं प्रासादार्धन निर्गमम् ।
तत्सम वा त्रिपाद वा निर्गमं बलिविष्टरम् ॥ ७५॥
पञ्चानामपि सालानामारात् पैशाचमग्रतः।
पैशाचपीठप्रासादमध्ये च बलिविष्टरम् ॥ ७६॥
पीठोत्सेधे षोडशभागे भागेन जन्म स्यात् ।
जगती चतुरंशेन कुर्यात् कुमुदं त्रिभिर्भागैः ॥ ७७ ॥
भागेनोपरि पढें कण्ठं कुर्यात् त्रिभागेन ।
एकेनोपरि कम्पं यशं स्याद् वाजनं चोर्ध्वं ॥ ७८ ॥
तदुपरि वाजनमेकं तड्यासार्धं त्रिपादमुपरिदलम् ।
पद्मत्रिभागमूचे कर्तव्या कर्णिका मध्ये ॥ ७९ ॥
तस्याध कमलोच्चं वार्डोच्चं कणिकायास्तु ।
मध्ये भद्रयुतं बाभद्रं वा सोपपीठं वा ॥ ८० ॥
नानाधिष्ठानानामाकृतयो वा यथा तथाप्युक्ताः ।
एवं पीठालङ्कृतमुदितं प्रवरैः पुरातनैर्मुनिभिः ॥ ८१ ॥
वृषभस्याग्रतः कुर्यात् प्रासादाप्रमाणतः ।
ध्वजस्थानं तदने तु तन्नीत्वा त्रिशिखालयम् ॥ ८२ ।।
एते वृषादयः सर्वे चान्तर्वामे तु गोपुरात् ।।
मध्यादिसालमाश्रित्य पावके हव्यकोष्ठकम् ॥ ८३ ॥
अभिगोपुरयोर्मध्ये धनधान्यगृहं भवेत् ।
याम्ये मज्जनशाला स्यात् तत्रस्थं पुष्पमण्डपम् ॥ ८४॥