पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५३
त्रयोविंशोऽध्यायः।।।।

पादायामं तु पञ्चांशं पादं सर्वाङ्गसंयुतम् ।
अथवा पादमानं तु नवभागैर्विभाजयेत् ॥ ६३ ॥
अधिष्ठानं द्विभागं स्याञ्छेषं पादोदयं भवेत् ।
साहिहस्तमारभ्य षषडङ्गलवर्धनात् ॥६४ ॥
षड्रस्तान्तं समुत्सेधं स्तम्भं त्रिःपञ्चसङ्खयया ।
भित्त्यभ्यन्तरतस्तावदेवं तस्या विशालता ॥६५॥
भक्त्यायामं च तावत् स्यात् क्षुद्रे महति मन्दिरे ।
षडङ्गलात् समारभ्य वाङ्गलाङ्गलवर्धनात् ॥ ६६॥
विंशन्मात्रावधिर्यावत् पादविष्कम्भमिष्यते ।
पादोच्चार्धमधिष्ठानं पडष्टांशोनमेव वा ।। ६७॥
पादोदयत्रिभागैकं चतुर्भागैकमेव वा ।
पादबन्धमधिष्ठानं चारुबन्धमथापि वा ॥ ६८॥
पादोनमप्यलङ्कारं प्रस्तरस्याप्यलङ्कतम् ।
पूर्वोक्तेन प्रकारेण युक्त्या तत्रैव योजयेत् ॥६९॥
खलूरिका मनुष्याणां वासेष्वेवमुदीरिताः।
प्रथमावरणाद् यावत् त्रिप्राकारान्तमावृतिः॥७॥
यथेष्टदिशि हि द्वारं युक्त्या युक्तं नृणां मतम् ।
परिवारविमानानि तत्तदुक्तपदे कमात् ।। ७१ ॥
आर्यात् पूर्वोक्तनीत्या तु प्रासादाभिमुखान्यपि।
नृत्तमण्डपपीठादि परिवाराद् बहिः पुरः ॥७२॥
स्नानार्थ मण्डपं वापि नृत्तमण्डपमेव वा।
परिवारालयान्तर्वा कर्तव्यं स्वप्रमाणतः ॥ ७३ ॥