पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
मयमते।।।

क्षुद्राणामल्पहाणां स्वव्यासार्धप्रमाणतः ।
अन्तर्मण्डलकं कुर्यात् सत्रिहस्तं तु तत्समम् ॥ ८ ॥
द्वितीयं हि तृतीयं तु तस्मात् पञ्चकराधिकम् ।
तस्मात् ससप्तहस्तं तु तत्समं स्याच्चतुर्थकम् ॥ ९॥
नवहस्तसमायुक्तं तत्समं पञ्चमं भवेत् ।
मध्यमानां स्वतारार्धमन्तर्मण्डलमिष्यते ॥१०॥
तत्सम पञ्चहस्तेन संयुक्तं स्याद् द्वितीयकम् ।
सप्तहस्ताधिकं तस्मात् सालमुक्तं तृतीयकम् ॥ ११ ॥
नवहस्ताधिकं तस्माच्चतुर्थ सालमीरितम् । .
एकादशरैर्युक्तं तत्समं पञ्चमं भवेत् ॥ १२ ॥
उत्तमानां स्वतारार्धमाद्यं सालं प्रकीर्तितम् ।
तत्सम सप्तहस्तेन संयुक्तं स्याद् द्वितीयकम् ॥१३॥
नवहस्ताधिकं तस्मात् तृतीयं सालमुच्यते ।
तस्मादेकादशाधिक्यं तत्समं तु चतुर्थकम् ॥१४॥
त्रयोदशकरैर्युक्तं तत्समं पञ्चमं भवेत् ।
एवं क्षुद्राल्पमध्यानामुत्कृष्टानां प्रकीर्तितम् ।। १५ ।।
एतेन कारयेद् धीमान् पूर्वोक्तन क्रमेण वा।
प्राकारं परितस्तस्मान्मुखायामं तु पूर्ववत् ॥ १६ ॥
भित्त्यभ्यन्तरमानेन मानयेन्मानवित्तमः ।
भित्तिमध्येन बाह्येन कैश्चिदुक्तं तु सूरिभिः ॥१७॥
अन्तर्मण्डलभित्तेश्च विष्कम्भं सार्धहस्तकम् ।
तस्मात् त्रिव्यङ्गुलाधिक्याद् द्विहस्तान्तं यथाक्रमम् ॥