पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
त्रयोविंशोऽध्यायः।।।।

तस्मात् सर्वप्रयत्नेन कुर्यात् संलक्ष्य बुद्धिमान् ।
एवं संक्षेपतः प्रोक्तं प्रासादानां तु लक्षणम् ॥ ५३ ॥
एकादिद्वादशान्तं ह्युदयविपुलभागं करैस्तारमानं
चोत्सेधं कूटकोष्ठाद्यवयवकरणं नामभेदं क्रमेण ।
प्रोक्तं संक्षिप्य सम्य,मुनिभिरवितथैर्ब्रह्मपूर्वैर्यथोक्तं
नानाभेदैर्विमानं प्रियतरमनघं तैतलानां मये(हीन)॥९४॥

इति मयमते वस्तुशास्त्रे चतुर्भुम्यादिबहुभूमिविधानो नाम

द्वाविंशोऽध्यायः।


अथ त्रयोविंशोऽध्यायः।

रक्षार्थ च विमानानां शोभार्थ (च) तथाधुना ।
परिवारनिवेशार्थ प्राकारं प्रोच्यते बुधैः ॥ १ ॥
कृत्वा चतुष्पदं मूलप्रासादस्य तु विस्तृतम् ।
आद्यं सालं महापीठं पदैः पोडशभिर्युतम् ॥ २ ॥
मण्डूकाख्यं द्वितीयं स्यान्मध्यं भद्रमहासनम् ।
चतुर्थ सुप्रतीकान्तं पञ्चमं चेन्द्रकान्तकम् ॥ ३॥
एवं युग्मपदैर्युक्तमयुग्मरथ वक्ष्यते ।
एकमाद्यं विमानं स्यादाद्यं सालं तु पीठकम् ॥ ४॥
द्वितीयं स्थण्डिलं सा(म?लं) मध्यं चोभयचण्डितम् ।
सुसंहितं चतुर्थं स्यादीशकान्तं तु पञ्चमम् ॥ ५ ॥
चतुरश्रीकृते, तेन मुखायाममि(तो ? हो)व॑तः ।
पादाधिकमथाध्यधै पादोनद्विगुणं क्रमात् ॥ ६ ॥
द्विगुणं द्विगुणार्ध च त्रिगुणं वा चतुर्गुणम् ।
मुखायाममिति प्रोक्तं प्रात्रमागणां विशेषतः ॥७॥