पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४४
मयमते।।।

सप्तभौममिदं प्रोक्तं विमानं सार्वदेशिकम् ।
तदधो मुनिभिः सार्ध गुणांशैः स्तम्भकुट्टिमम् ॥६० ॥
धर्मरुद्रार्कभागैस्तु सत्रयोदशभागिकः ।
अष्टभौमं वदन्त्यस्मिन्नेवं प्राज्ञा मुनीश्वराः ॥ ६१॥
तदधः सार्धसप्तांशैः सत्रिपादगुणांशकैः ।
स्तम्भं च तलकं कुर्यात् तारेऽशं तत्र पूर्ववत् ॥६२ ॥
एवं नवतलं प्रोक्तं दशभौममथोच्यते।
तदधोऽष्टयुगांशैस्तु पादं मसूरकं भवेत् ॥ ६३ ॥
तारे पूर्वोक्तभागैस्तु मनुभागैरथापि वा ।
तदधः सार्धवस्वंशैः सपादयुगभागिकैः ॥ ६४ ॥
स्तम्भ मसूरकं कुर्यात् तारे तद्वच्च पक्षकैः ।
तथा हिरष्टभागैस्तु सप्तदशांशकैस्तु वा ॥ ६५ ॥
एकादशतलं प्रोक्तं द्वादशक्षममुच्यते । .
तदधो नन्दनन्दाभागैः स्तम्भं मसूरकम् ।। ६६ ॥
तारे द्विरष्टभागादि यावदर्कद्वयांशकम् ।
गृहपिण्ड्यलिन्द्रहारा(श्च?) गोंगाराद् बहिः क्रमात् ।
हर्म्यस्यावधिक यावन्नीयते तावदंशकैः।
द्वित्रिवेदेषुषड्भागैः प्रागुक्तांशैस्तु वा गृहम् ॥ ६८ ॥
एकार्थेनाथवा।लेन्द्रं शेषं कुड्येषु योजयेत् ।
केचित् त्रिनवभिर्भागैर्वदन्ति द्वादशावनौ ।। ६९ ॥
षट्कुड्यं पञ्चसालिन्द्र बहिः कूटादिशोभितम् ।
कूटं कोष्ठं च नीडं च क्षुद्रशालेभतुण्डकम् ॥ ७० ॥