पृष्ठम्:मयमतम् TG Sastri 1919.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४३
द्वाविंशोऽध्यायः।।।।

 दण्डेन निर्गममुपर्यपि भद्रनीडं
  सार्ध हिंदण्डविपुलं गलनासिकं च ।
 वृत्ताभकन्धरवितर्दिकमस्तकं स्या-
  दष्टार्धनासिकमदभ्रमथाल्पमष्टी ॥ ५२ ॥
 कूटं च नीडमथ कोष्ठकमुन्नतं स्या-
  दादौ तले तदपि मध्यममञ्चयुक्तम् ।
 शालोन्नतं ह्युपरि चोन्नतमूर्ध्वकूट
  वृत्ताभमत्र वसुपट्टशिरस्तु मध्ये ॥ ५३॥
 वेदाश्रकूटशिखरं ह्यथ मूलभूमौ
  नासाल्पकं घुपरि वेधविहीनबन्धम् ।
 नानामसूरकसहाधिकशोभिताङ्गं
  नाम्ना सुखावहमिदं सुरमन्दिरं स्यात् ॥ ५४ ॥
सत्रिपादयुगलार्धपञ्चकैद्यर्धसाशिशिरसाधनेत्रकैः ।
पञ्चभागिकसभागनेत्रकैस्त्रयघिवेदनयनार्धवेदकैः ॥ ५५ ॥
त्र्यधिकांशकशिवद्विपादगङ्गाश्विनीभिरुदये षडष्टके ।
कुट्टिमं चरणमञ्चपादकं प्रस्तरं तलिपमञ्चमधिकम् ।। ५६ ॥
प्रस्तरं तलिपमञ्चवेदिकं कन्धरं शिखरकुम्भकं क्रमात् ।
पञ्चभौममुदितं विशालके नन्दपतिभिरथेन्द्रियांशकैः ॥५७॥
 उच्छ्रये तद्धः षड्भिर्गुणांशैरधिकं तलम् ।
 षड्भौममेवमुद्दिष्टं ताराभागं तथा भवेत् ॥ ५८ !।
 तदधः सार्धषड्भागैः सपादगुणभागकैः ।
 स्तम्भं मसूरकं कुर्यात् तारे रुद्रार्कभागतः ॥ ५९ ॥