द्विगुणं कोष्ठकायामं तयोर्मध्ये तु पञ्जरम् ।
तदा रसभागे तु सौष्ठिकोष्ठं तु पूर्ववत् ॥४४॥
विजयस्य यथा प्रोक्तं शेषमूर्ध्वं तु योजयेत् ।
कूटकोष्ठादि सर्वाङ्गं पूर्ववत् संख्यया विदुः ॥ ४५ ॥
महानीडं द्विरष्टौ स्यान्नाम्नेदं भद्रकूटकम् ।
तदेवान्यदलङ्कारं शालामध्ये सभद्रकम् ॥ ४६॥
वृत्तग्रीवाशिरोयुक्तमेतन्नाम्ना मनोहरम् ।
तदेवान्यदलङ्कारं वेदाध कन्धरं शिरः ॥ ४७ ॥
नानामसूरकस्तम्भवेदिकाद्यैरलङ्कृतम् ।
नाम्नावन्तिकमित्युक्तं शम्भोमन्दिरमुत्तमम् ॥ ४८॥
त्रिःसप्तहस्तविपुले चतुरंशनाली
धर्माशकेंऽशमभितो गृहपिण्डिमानम् ।
अन्धारमंशमभितोऽशकमङ्गहारं
कूटं च नीडमथ कोष्ठकमंशतारम् ॥ ४९ ।।
शालायतं द्विगुणमंशकतारहारं
वातायनेर्मकरतोरणकैर्विचित्रम् ।
त्यक्त्वा जलस्थलमुपर्यपि चाष्टभागे
कूटं च नीडमथ कोष्ठकमंशतत्या ॥ ५० ॥
शालायतं द्विगुणमूर्ध्वतले षडंशे
सौष्ठयंशमंशविपुलं द्विगुणायतं स्यात् ।
कोष्ठं च नीडविपुलं हि तदर्धभागं
चोर्ध्व युगांशिनयनांशकमध्यभद्रम् ॥५१॥